________________
पद्मपुराणम् ।
३६४
षोडश पर्व । अंतनिरूप्य वांछंती बहिरप्यस्य दर्शनं । कुर्वती लोचने स्पृष्टे यात्यदृष्टे पुनः शुचं ॥ ५ ॥ सकृदस्पष्टदृष्टत्वाच्चित्रकर्मणि कृच्छ्रतः । लिखंती वेपथुग्रस्तहस्तप्रच्युतविग्रहा ॥ ६ ॥ संचारयंती कृच्छ्रेण वदनं करतः करं । कृशीभूतसमस्तांगश्लथसस्वनभषणा ॥७॥ दीर्घोष्णतरनिश्वासदग्धपाणिकपोलिका । अंशुकस्यापि भारेण खेदमंगेषु विभ्रती ॥८॥ निंदती भृशमात्मानं स्मरंती पितरौ मुहुः । दधाना हृदयं शून्यं क्षणं निष्पंदविग्रहा ॥९॥ दुःखनिसृतया वाचा वाष्पसंरुद्धकंठतः । उपालंभं प्रयच्छंती दैवायात्यंतविक्लवा ॥ १० ॥ करैः शीतकरस्यापि विभ्रती दाहमुत्तमं । प्रासादेऽपि विनियांती याति मूर्छा पुनः पुनः ॥११॥ अयि नाथ तवांगानि मनोज्ञानि कथं मम । अंगानां हृदयस्थानि कुर्वते तापमुत्तमं ॥ १२ ॥ ननु ते जानतः कश्चिन्नापराधो मया प्रभो । कारणेन विना कस्मात्को यातोऽसि मे परं।।१३।। प्रसीद तव भक्तास्मि कुरु मे चित्तनिवृतिं । बहिर्दर्शनदानेन रचितोंजलिरेष ते ॥ १४ ॥ द्यौरेवादित्यनिर्मुक्ता चंद्रहीनेव शर्बरी । त्वया विना न शोभेहं विद्येव च गुणोज्झिता ॥१५॥ प्रयच्छंतीत्युपालंभं पत्ये मानसवासिने । विदून मुक्ताफलस्थूलान्मुंचंती लोचनांमसः ॥१६॥ खिद्यमानात्र दिष्टेषु कुसुमस्रस्तरेष्वपि । गुरुवाक्यानुरोधेन कुर्वती वपुषः स्थितिं ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org