SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३६३ षोडशं पर्व | ततो विधानयोगेन कृत्वोपयमनं तयोः । परमं प्रमदं प्राप्ताः सशब्दाः सर्व बांधवाः ॥ २२४ ॥ नानाद्रुमलताकीर्णे फलपुष्पविराजिते । मासं तत्र वने कृत्त्वा विभूत्या परमोत्सवं ॥ २२५ ॥ यथोचितं कृतालापाः कृतपूजाः परस्परं । यथास्वं ते ययुः सर्वे वियोगादुखिता क्षणं ||२२६ || अविदिततवस्थितयो । विदधति यज्जतवः परे शर्म ॥ तत्तत्र मूल हेतौ । कर्म रखौ तापके दृष्टं ।। २२७ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्म-चरिते अंजनासुन्दरी विवाहाभिधानं नाम पंचदशं पर्व । अथ षोडशं पर्व । ततोऽसंभाषणादस्याश्चक्षुषश्चानिपातनात् । चकार परमं दुःखं वायुरज्ञाततन्मनाः ॥ १ ॥ रात्रापि न सा लेभे निद्रा विद्राणलोचना । अनारतगलद्वाष्पमलिनौ दधती स्तनौ ॥ २ ॥ वायुमप्यभिनंदती दयितेनैकनामकं । तन्नामश्रवणोत्कंठावष्टधश्रवणा भृशं ॥ ३ ॥ कुर्वती मानसे रूपं तस्य वेद्यां निरूपितं । अस्पष्टं क्षणनिश्चेष्टस्थिता स्तिमितलोचना ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy