________________
पद्मपुराणम् ।
३६२
पंचदशं पर्व ।
प्रह्रादेन समं तेन ततोसावित्यभाष्यत । भद्रेदं गमनं कस्मात्क्रियते शोककारणं ॥ २१९ ॥ ननु केन विमुक्तोऽसि कस्य नेष्टोऽसि शोभन । चिंतयत्यपि नो कश्चिद्यत्ते बुध न रोचते २१२ पितुर्मम च ते वाक्यं दोषे सत्यपि युज्यते । कर्तुं किमुत निश्शेषदोषसंगविवर्जितं ॥ २१३ ॥ ततः सूरे निवर्तस्व क्रियतां नवमीप्सितं । भवादृशां गुरोराज्ञा नत्वानंदस्य कारणं ॥ २१४ ॥ इत्युक्त्त्वापत्यरागेण वीरो विनतमस्तकः । श्वसुरेण धृतः पाणौ जनकेन च सादरं ॥ २१५ ॥ ततस्तद्गौरवं भक्तुमसमर्थोन्यवर्तत । दध्याविति च कन्यायाः कोपादुःखस्य कारणं ॥ २१६ ॥ समुह्य शातयाम्येनां दुःखेना संगजन्मना । येनान्यतोऽपि नैवैषा प्राप्नोति पुरुषात्सुखं ॥ २१७ ॥ चकार विदितार्थं च मित्रं तेनेतिभाषितः । साधु ते विदितं बुद्धया मयाप्येतन्निरूपितं ॥२१८॥ निवृत्तं दयितं श्रुत्वा कन्यायाः सम्मदोऽभवत् । निरंतरसमुद्भिन्नरोमांचाशेषविग्रहः ॥ २१९ ॥ ततः समयमासाद्य तयोर्वैवाहमंगलं । प्रश्रुतं बंधुभिः कर्तु प्राप्तसर्वसमीहितं ॥ २२० ॥ अशोक पल्लवस्पर्शः कन्यायाः स करोऽभवत् । विरक्तचेतसस्तस्य कृशानुरसनोपमः || २२१ ॥ अनिच्छतो गता दृष्टिः कथंचित्तस्य तत्तनौ । क्षणमात्रमपि स्थातुं न सेहे तुल्यविद्युतिः २२२ एष भावं न वेत्तास्या इति विज्ञाय पावकः । स्फुटल्लाजसमूहेन जहासैव कृतस्वनं ॥ २२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org