________________
पद्मपुराणम् ।
पंचदशं पर्व । कुर्यान्मह्यं हितं तात जीवितेशं निवर्तयेत् । अपि नाम भवेदस्य बुद्धिावर्तनं प्रति ॥ १९८ ॥ तत्त्वतो यदि नाथो मे परित्यागं करिष्यति । आहारवर्जनं कृत्वा ततो यास्यामि पंचतां १९९ इति संचितयंती सा प्राप्ता मूर्छा महीतले । पपाताश्चर्यनिर्मुक्ता लूनमूललता यथा ॥२०॥ ततः किमिदमित्युक्त्वा संभ्रमं परमागते । शीतलक्रियया सख्यौ चक्रतुस्तां विमूर्छतां ॥२०१॥ पृच्छयमाना च यत्नेन मूर्जाहेतुं श्लथांगिका । शशाक त्रपया वक्तुं न सा स्तिमितलोचना२०२ अथ वायुकुमारस्य सेनायामिति मानवः । आकुला मानसे चक्रुरहेतुगतिविस्मिताः ॥२०३ ॥ अविधायेप्सितं कस्मादयं गंतुं समुद्यतः । कोपोऽस्य जनितः केन केन वा चोदितोऽन्यथा २०४ विद्यते सर्वमेवास्य कन्योपादानकारणं । अतः किमित्ययं कस्मादभूदपगताशयः ॥ २०५ ॥ हसित्वा केचिंदित्यूचुर्नामास्येदं सहार्थकं । पवनंजय इत्येवं तस्माज्जेतास्य वेगतः ॥२०६ ॥ ऊचुरन्येऽयमद्यापि न जानात्यंगनारसं । नूनं येन विहायेमां कन्यां गंतुं समुद्यतः ॥ २०७॥ यदि स्यादस्य विज्ञाता रतिः परमुदारजा । बद्धः स्यात्प्रेमबंधन ततो वनगजो यथा ॥२०८॥ इत्युपांशुकृतालापसामंतशतमध्यगः । वेगवद्वाहनो गंतुं प्रवृत्तः पवनंजयः ॥ २०९ ॥ ततः कन्यापिता ज्ञात्वा प्रयाणं तस्य संभ्रमात् । समस्तैबंधुभिः सार्धमाजगाम समाकुलैः २१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org