________________
पद्मपुराणम् ।
पंचदशं पर्व ।
एवं चिंतयतस्तस्य कन्याप्रीतिरिवागता । क्षयं विभावरी तूर्यमाहतं च प्रबोधकं ।। १८५ ।। ततः संध्याप्रकाशेन कौशिकीया दिगावृता । पवनंजयनिर्मुक्तरागेणेव निरंतरं ।। १८६ ॥ उदियाय च तिग्मांशुः स्त्रीकोपादिव लोहितं । दधानस्तरलं बिंबं जगच्चेष्टितकारणं ।। १८७ ।। ततो वहन्विरागेण नितांतमलसां तनुं । ऊचे प्रहसितं जायाविमुखः पवनंजयः ।। १८८ ।। सखेन समीपेऽपि युज्यतेवस्थितिर्मम । तत्सक्तपवनासंगो माभूदिति ततः शृणु ॥ १८९ ॥ उत्तिष्ठ स्वपुरं यामो न युक्तमवलंबनं । सेना प्रयाणशंखेन कार्यतामवबोधिनी ॥ १९० ॥ तथेति कारिते तेन क्षुब्धसागरसन्निभा । चचाल सा चमू क्षिप्रं कृतयानोचितक्रिया ॥ १९९ ॥ ततो रथाश्वमातंगपादातप्रभवो महान् । शब्दो भेर्यादिजन्मा च कन्यायाः श्रवणेऽविशत् १९२ प्रयाणसूचिना तेन नितांतं दुःखिताभवत् । विशता मुद्गराघातवेगतः शंकुनेव सा ॥ १९३ ॥ अचिंतयच्च हा कष्टं दत्त्वा मे विधिना हतं । निधानं किं करोम्यत्र कथमेतद्भविष्यति ॥ १९४ ॥ अंगेऽस्य पुरुषेंद्रस्य क्रीडिष्यामीति ये कृताः । तेऽन्यथैव परावृत्ता मंदाया मे मनोरथाः १९५ क्रियमाणमिमं ज्ञात्वा कथंचिद्भेदमेतया । वैरिणीभूतया सख्या मयि विद्वेषमागतः ॥ १९६ ॥ विवेकरहितामेतां धिक् पांपां क्रूरभाषिणीं । यया मे दयितोवस्थामीदृशीमेष लंभितः ॥ १९७ ॥
Jain Education International
३६०
For Private & Personal Use Only
www.jainelibrary.org