________________
पद्मपुराणम् ।
३५९
पंचदशं पर्व ।
अयि मित्र शमं गच्छ तवाप्येष न गोचरः । कोपस्यानेकसंग्रामजयोपार्जनशालिनः ॥ १७२ ॥ इतरस्यापि नो युक्तं कर्तुं नारीविपादनं । किं पुनस्तव मत्तेभकुंभदारणकारिणः ॥ १७३ ॥ पुंसां कुलप्रसूतानां गुणख्यातिमुपेयुषां । यशो मलिनताहेतुं कर्तुमेवमसांप्रतं ॥ १७४ ॥ तस्मादुत्तिष्ठ गच्छावस्तेनैव पुनरध्वना । विचित्रा चेतसोवृत्तिर्जनस्यात्र न कुप्यते ।। १७५ ।। नूनमस्याः प्रियोसौ ना कन्याया येन पार्श्वगां । मज्जुगुप्सनसंसक्तां न मनागप्यवीवदत् ॥ १७६ ॥ ततः समागतौ ज्ञातौ न केनचिदिमौ भृशं । स्वैरं निस्सृत्य निर्व्यूहातौ वसतिमात्मनः ॥ १७७॥ ततः परममापन्नो विरागं पवनंजयः । इति चिंतनमारेभे प्रशांतहृदयो भृशं ।। १७८ ॥ संदेहविषमावर्तादुर्भावग्राहसंकुला । दूरतः परिहर्तव्या पररक्तांगनापगा ॥ १७९ ॥ कुभावगहनात्यंतं हृषीकव्यालजालिनी । बुधेन नार्यरण्यानी सेवनीया न जातुचित् ॥ १८० ॥ किं राजसेवनं शत्रुसमाश्रयसमागमं । श्लथं मित्रं स्त्रियं चान्यसक्तां प्राप्य कुतः सुखं ।। १८१ ॥ दृष्टा बंधून् सुतान् दारान् बुधा मुंचंत्यसत्कृताः । पराभवजलाध्माता क्षुद्रा नश्यंति तत्र तु१८२ मदिरारागिणं वैद्यं द्विपं शिक्षाविवर्जितं । अहेतुवैरिणं क्रूरं धर्महिंसनसंगतं ॥ १८३ ॥ मूर्खगोष्ठीं कुमर्यादं देशं चंडं शिशुं नृपं । वनितां च परासक्तां सूरिर्दूरेण वर्जयेत् ॥ १८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org