SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३५८ पंचदशं पर्व । विद्युत्प्रभो भवेदस्याः कन्याया यदि पुण्यतः । भर्त्ता ततोनया लब्धं जन्मनोऽस्य फलं भवेत् ॥ वसंतमालिके भेदो वायोर्विद्युत्प्रभस्य च । स गतो जगति ख्यातिं गोष्पदस्यांबुधेश्वयः १६० असौ संवत्सरैरल्पैर्मुनितां यास्यतीति सः । अस्याः पित्रा परित्यक्तस्तन्मे नाभाति शोभनं ॥ वरं विद्युत्प्रभेणामा क्षणोऽपि सुखकारणं । सत्रानंतोऽपि नान्येन कालः क्षुद्रासुधारिणा १६२ ततः प्राह्लादिमित्युक्ते क्रोधानलविदीपितः । क्षणाच्छायापरावृत्तं संप्राप्तः पुरुवेपथुः || १६३ ।। दष्टाधरः समाकर्षन् सायकः परिवारितः । निरीक्षणस्फुरच्छोणछायाछन दिगाननः || १६४ ॥ ऊचे प्रहसितावश्यमस्या एवेदमीप्सितं । कन्याया यद्वदत्येवमियं नारी जुगुप्सितं ॥ १६५ ॥ नाम्यतोऽनयः पश्य मूर्द्धानमुभयोरपि । विद्युत्प्रभोधुना रक्षां करोतु हृदयप्रियः ॥ समाकर्ण्य ततो वाक्यं मैत्रं प्रहसितो रुषा । जगाद भृकुटीबंध भीषणालिकपटिकः ॥ सखे सखेलमेतेन यत्नेनागोचरे तव । ननु ते सायकस्यारिनरनाशः प्रयोजनं ॥ अतः पश्यत वाक्रोशप्रसक्तां दुष्टयोषितां । इमामेतेन दंडेन करोमि गतजीवितां ॥ ततो दृष्टास्य संरंभ महांतं पवनंजयः । विस्मृतात्मीयसंरंभः खड्गं कोश्यां प्रतिक्षिपन् ॥ निजप्रकृतिसंप्राप्तिप्रवणाशेषविग्रहः । जगाद सुहृदं क्रूरकर्मनिश्चितमानसं ।। १७१ ॥ १६६ ॥ १६७ ॥ १६८ ॥ १६९ ॥ १७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy