________________
पद्मपुराणम् ।
३५७
पंचदशं पर्व।
आसेचनकवीक्ष्यां तामेकतानस्थितेक्षणः । संप्राप्तः सुखितामुर्वीमैक्षिष्ट पवनंजयः॥ १४६ ॥ अत्रांतरे प्रियात्यंत वसंततिलकाभिधा । अभाषत सखी वाक्यमिदमंजनसुंदरीं ॥ १४७॥ अहो परमधन्यत्वं सुरूपे भर्तृदारिके । पित्रा वायुकुमाराय यद्दत्तासि महौजसे ॥ १४८ ॥ गुणैस्तस्य जगत्सर्व शशांककिरणामलैः । व्याप्तमन्यगुणख्यातितिरस्करणकारणैः ॥ १४९ ॥ कलशब्दा महारत्नप्रभापटलरंजिता । अंके स्थास्यति वीरस्य तस्य वेलेव वारिधेः ॥ १५० ॥ पतिता वसुधारा त्वं तटे रत्नमहीभृतः । श्लाघ्या संबंधजस्तोषो वधूनामभवत्परः ॥ १५१ ॥ कीर्तयंत्यां गुणानेवं तस्य संख्या सुमानसा । लिलेख लज्जयांगुल्या कन्यांघ्रिनखमानता ॥१५२।। नितांतं च हृतो दूरं पूरेणानंदवारिणः । विकसन्नयनांभोजच्छन्नास्यः पवनंजयः ।। १५३ ॥ नाम्नाथ मिश्रकेशीति वाक्यं सख्यपरावदत् । संकुचत्पृष्टविंबोष्टं धूतधाम्मिल्लपल्लवं ॥ १५४ ॥ अहो परममज्ञानं त्वया कथितमात्मनः । विद्युत्प्रभं परित्यज्य वायोर्गृह्णासि यद्गुणान् ॥१५५।। कथा विद्युत्प्रभस्यास्मिन्मया स्वामिगृहे श्रुता । तस्मै देया न देयेयं कन्येति मुहुरुद्ता ॥१५६॥ उदन्वदंभसो विंदुसंख्यानं योवगच्छति । तद्गुणानां मतिः पारं व्रजेत्तस्यामलत्विषां ॥१५७ ॥ युवा सौम्यो विनीतात्मा दीप्तो धीरः प्रतापवान् । पारे विद्यास्थितः सर्वजगद्वांछितदर्शनः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org