________________
पद्मपुराणम् ।
पंचदशं पर्व। ततो भास्करनाथस्य वियोगादिव कृष्णता । आशा पौरंदरी प्राप तमसात्यंतभूरिणा ॥ १३३॥ नीलेनेव च वस्त्रेण क्षणाल्लोकस्तिरस्कृतः । रजो नीलांजनस्येव प्रवृत्तं पतितुं घनं ॥ १३४ ॥ ततः समुचिते काले तस्मिन् प्रस्तुतकर्मणः । इत्यवोचत सोत्साहः सुहृदं पवनंजयः ॥ १३५ ॥ उत्तिष्ठाग्रे सखे तिष्ठ कुरु मार्गोपदेशनं । बजावस्तत्र सा यत्र तिष्ठति स्वांतहारिणी ॥ १३६ ॥ इत्युक्ते प्रस्थितौ गंतु पूर्वप्रस्थितमानसौ । मीनाविव महानीलनीलव्योमतलार्णवे ॥ १३७ ॥ क्षणेन च परिप्राप्ती गृहमांजनसुंदरं । सुंदरं तत्समा भक्त्या रत्नौघसममंदिरं ॥ १३८ । सप्तमं स्कंधमारुह्य तस्य वातायनस्थितौ । मुक्ताजालतिरोधानावंगनां तामपश्यतां ॥ १३९॥ संपूर्णवस्त्रचंद्रांशुविफलीकृतदीपिकां । सितासितारुणच्छायचक्षुः शारितदिङ्मुखां ॥१४॥ आभोगिनौ समुत्तुंगी प्रियार्थ हारिणौ कुचौ । कलशाविव विभ्राणा शृंगाररसपूरितौ ॥ १४१॥ नवपल्लवसच्छायं पाणिपादं सुलक्षणं । समुद्गिरदिवाभाति लावण्यं नखरश्मिभिः ॥ १४२ ।। स्तनभारादिवोदारान्मध्यं भंगाभिशंकया । त्रिवलीदामभिर्बद्धं दधतीं तनुतां भृशं ॥ १४३ ॥ तूणी मनोभुवस्तंभी बंधनं मदकामयोः । सुवृत्तौ विभ्रतीमुरू नदौ लावण्यवाहिनौ ॥ १४४ ॥ इंदीवरावलीछायां युक्तां मुक्ताफलोडुभिः । आसक्तां प्रियचंद्रेण मूर्तामेव विभावरी ॥ १४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org