________________
पद्मपुराणम् ।
३५५
पंचदर्श पर्व ।
I
जानस्येव ममाकूतमतः किं ते निवेद्यते । केवलं मुखरत्वं मे करोत्यत्यंत दुःखितां ॥ १२० ॥ सखे कस्य वदान्यस्य दुःखमेतन्निवेद्यते । मुक्त्वा त्वां विदिताशेषजगत्त्रयविचेष्टितं ॥ १२१ ॥ कुटंबी क्षितिपालाय, गुर्खेतेवसन् प्रिया । पत्यै, वैद्याय रोगार्तो, मात्रे शैशवसंगतः ॥ १२२ ॥ निवेद्य मुच्यते दुःखाद्यथात्यंतपुरोरपि । मित्रायैवं नरः प्राज्ञस्ततस्ते कथयाम्यहं ॥ १२३ ॥ श्रुत्वैव तामहं हृद्यां महेंद्रतनुसंभवां । मन्मथस्य शरैर्दूरं विकलत्वमुपागतः ।। १२४ ॥ तामदृष्ट्रातिचक्षुष्यां प्रियां मानसहारिणीं । अतिवादयितुं नाहं प्रभवामि दिनत्रयं ।। १२५ ।। अतो विधत्स्व तं यत्नं येन पश्यामि तामहं । तद्दर्शनादहं स्वस्थो मयि स्वस्थे भवानपि १२६ जीवितं ननु सर्वस्मादिष्टं सर्वशरीरिणां । सति तत्रान्यकार्याणामात्मलाभस्य संभवः ॥ १२७ ॥ एवमुक्तस्ततोवोचदाशु ग्रहसितो हसन् । लब्धार्थमिव कुर्वाणः सद्यो मित्रस्य मानसं ।। १२८ ।। सखे किं बहुनोक्तेन कृत्यकालातिपातिना । वद किं करवाणीति ननु नान्यत्वमावयोः ॥ १२९ ॥ यावत्तयोः समालापो वर्ततेऽयं सुचित्तयोः । तावत्तदुपकारीव गतोऽस्तं धर्मदीधितिः ॥ १३० ॥ प्राह्णादेरापि रागेण संध्यालोकेन भानुना । प्रेरितो ध्वांतसंभूतिमिच्छता प्रियकारिणा ॥ १३१ ॥ कांतया रहितस्यास्य दुःखं दृष्ट्वैव संध्यया । करुणायुक्तया भर्त्ता तेजसामनुवर्तितः ॥ १३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org