________________
पद्मपुराणम् ।
३५४
पंचदशं पर्व । तनुभूतसमस्तांगः परिभ्रष्टविभूषणः । दध्याविति सचित्तेन परिवारेण वीक्षितः ॥ १०७ ॥ कदा नु तामहं कांता वीक्षे स्वांकनिवेशितां । स्पृशे कमलतुल्यानि गात्राणि कृतसंकथः॥१०८॥ श्रुत्वा तावदियं जाता ममावस्थातिदुःखदा । आलोक्य तां तु नोऽपश्यद्भवेयं पंचतां गतः १०९ अहो महदिदं चित्रं मनोज्ञापि सखी मम । यदसौ दुःखभारस्य कारणत्वमुपागता ॥ ११ ॥ अयि भद्रे कथं यस्मिन्तुष्यते हृदयं त्वया । दग्धं तदेव शक्तासि पंडित दुःखवन्हिना ॥१११॥ मृदुचित्ताः स्वभावेन भवंति किल योषितः । मदुःखदानतोनातं विपरीतमिदं तव ॥ ११२ ॥ अनंगः सन् व्यथामेतामनंगत्वं करोषि मे । यदि नाम भवेत्सांगस्ततः कष्टतमं भवेत् ॥११३॥ कृतं नचात्र मे देहे वेदना च गरीयसी । तिष्ठन्नेकत्र चोद्देशे भ्रमसि कापि संततं ॥ ११४॥ दिवसानां त्रयं नैतन्मम क्षेमेण गच्छति । यदि तां विषयीभावमानयामि न चक्षुषः ॥११५ ॥ अतस्तद्दर्शनोपायः कतरो मे भविष्यति । यस्याधिगमतश्चित्तं प्रशांतिमधियास्यति ॥ ११६ ॥ अथवा सर्वकार्येषु साधनीयेषु विष्टपे । मित्रं परममुभित्वा कारणं नान्यदीक्ष्यते ॥ ११७ ॥ इति ध्वात्वा स्थितं पार्श्वे छायाबिंबमिवानुगं । विक्रियातः समुत्पन्नं शरीरं स्वमिवापरं ॥११८॥ नाना प्रहसितं मित्रं सर्वविधभभाजनं । मंदगद्गदया वाचा जगाद पवनंजयः ॥ ११९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org