________________
पद्मपुराणम् ।
पंचदर्श पर्व। श्रुत्वा परिजनादेतां सर्वावयवसुंदरीं । दिवसानां त्रयं सेहे न पाल्हादिः प्रतीक्षितुं ॥ ९४ ॥ संगमोत्कंठितः सोयमेभिर्मन्मथसंभवैः । पूरितो दशभिर्वेगैर्भटो बाणेरिवाहवे ॥ ९५ ॥ आद्ये तद्विषया चिंता वेगे समुपजायते । द्वितीये दृष्टुमाकारो बहिः समभिलष्यते ॥ ९६ ॥ तृतीये मंददीर्घोष्णनिश्वासानां विनिर्गमः । चतुर्थे सज्वरो दृष्टज्वलनोपमचंदनः ॥ ९७ ॥ विवर्तः पंचमेंगस्य कुसुमप्रस्तरादिषु । मन्यते विविधं स्वादु षष्ठे भक्तं विषोपमं ॥ ९८॥ सप्तमे तत्कथासक्त्या विप्रलापसमुद्भवः । उन्मत्तताष्टमे गीतनृत्यविभ्रमकारिणी ॥ ९९ ॥ मदनोरगदष्टस्य नवमे मूर्छनोद्भवः । दशमे दुःखसंभारः स्वसंवेद्यः प्रवर्तते ॥१०० ॥ विवेकिनोऽपि तस्येदं तदा जातमनंकुशं । चरितं वायुवेगस्य हताशं धिगनंगकं ॥१०१॥ अथ चेतोभुवो वेगैरसौ धैर्यात्परिच्युतः । उद्वर्तितकरच्छन्ननिश्वासप्रचलाननः ॥ १०२ ॥ करसंगारुणीभूतस्वेदवद्डमंडलः । उष्णातिदीर्घनिश्वासग्लपितासनपल्लवः ॥ १०३ ॥ जंभणं कंपनं जंभा मंदं कुर्वन्पुनः पुनः । निस्सहं धारयन्कायं गाढाकल्पकशल्यतः ॥ १०४ ॥ रामाभिध्यानतो मोघं हृषीकं पटलं दधत् । मनोज्ञेष्वपि देशेषु महतीमधृति व्रजन् ॥ १०५ ॥ दधानः शुन्यमात्मानं परित्यक्ताखिलक्रियः । क्षणमात्रधृतां भूयः परिसुचन्नपत्रपां ॥ १०६ ॥
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org