________________
पद्मपुराणम् ।
३५२
पंचदशं पर्य। उपविष्टौ च विश्रब्धौ तौ मनोज्ञशिलातले । परस्परं शरीरादिकुशलं पर्यपृच्छतां ॥ ८१॥ उवाचेति महेंद्रोथ सखे किं कुशलं मम । कन्यानुरूपसंबंधचिंताव्याकुलितात्मनः ॥८२ ॥ अस्ति मे दुहिता योग्या वरं प्राप्त मनोहरा । कस्मै तां प्रददामीति मम भ्राम्यति मानसं ॥८३॥ रावणो बहुपत्नीकस्तत्सुतौ बजती रुपं । दानेनान्यतरस्यातो न तेषु रुचिरस्ति मे ॥ ८४ ॥ पुरे हेमपुराभिख्ये तनयः कनकधुतेः । विद्युत्प्रभो दिनैरल्पैर्निर्वाणं प्रतिपत्स्यते ।। ८५ ॥ मयेयं विदिता वार्ता प्रकटा सर्वविष्टपे । केनापि कथितं नूनं संज्ञानेनेति योगिना ॥ ८६ ॥ मंत्रिमंडलयुक्तस्य ततो मम विनिश्चतः । पुत्रस्तव वरत्वेन निवाच्यः परनंजयः ॥ ८७॥ मनोरथोपमायातस्त्वया प्रह्लाद पूरितः । समयेनास्मि संजातः क्षणेन परिनिर्वृतः ॥ ८८ ॥ ततोवोचदलं प्रीतः प्रह्लादो लब्धवांछितः । चिंता ममापि पुत्रस्य द्वितीयान्वेषणं प्रति ॥८९॥ ततोहमपि वाक्येन त्वदीयेनामुना सुहृत् । शब्दगोचरतामुक्ता परिप्राप्तः सुखासिकां ॥९० ॥ सरसो मानसाख्यस्य तटेथात्यंतचारुणि । गुरुभ्यां वांछितं कर्तुं तयोर्वैवाहमंगलं ॥ ९१ ॥ स्थिते तत्रोभयोः सेने क्षणकल्पितसंश्रये । गजवाजिपदातीनामनुकूलरवाकुले ॥ ९२ ॥ दिनेषु त्रिषु यातेषु तयोः सांवत्सरा जगुः । कल्याणदिवसं ज्ञातीनखिलज्योतिरीहितः॥९३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org