________________
पद्मपुराणम् ।
३५१
पंचदशं पर्व ।
दंष्ट्रा वसंतसिंहस्य मानस्तंवेरमांकुशः । अकोटकेसरं रेजे प्रेषितस्त्रीभयंकरं ॥ ६८ ॥ घनं कौरवकं जालं कणभृंगकदंबकं । वियोगिनी मनांसीव मधुनाकृष्टमुज्झितं ॥ ६९ ॥ कुड्मलोद्दीपितोऽशोकप्रचलन्नवपल्लवः । प्राचुर्याद्वनितोदीर्णरागरा शिरिवाबभौ ॥ ७० ॥ किंशुकं घनमत्यंतं दिदीपे वनराजिषु । वियोगिनीमनस्थातिरिक्तदुःखानिलोपमं ॥ ७१ ॥ व्याप्तदिक्चक्रवालेन रजसा पुष्पजन्मना । वसंतः पटवासेन चकारेव महोत्सवं ॥ ७२ ॥ निमेषमपि सेहाते न स्त्रीपुंसावदर्शनं । कुत एवान्यदेशेन संगमं प्रेमबंधनौ ॥ ७३ ॥ गंतुमारेभिरे देवा जिनभक्तिप्रचोदिताः । नंदीश्वरं महामोदाः फाल्गुनाष्टदिनोत्सवे ॥ ७४ ॥ जग्मुरष्टापदे तत्र काले विद्याधराधिपाः । पूजोपकरणव्यग्र करभृत्यगणान्विताः ।। ७५ ।। पूज्यं नाभेयनिर्वृत्या तमद्रिं भक्तिनिर्भरः । समेतो बंधुवर्गेण महेंद्रोऽपि समीयिवान् ॥ ७६ ॥ स तत्र जिनमर्चित्वा स्तुत्वा नत्वा च भावतः । रौक्म्ये शिलातले श्रीमानासांचक्रे यथासुखं ७७ प्रह्लादोऽपि तदायासीत्तं गिरिं वंदितुं जिनं । कृताभीष्टं भ्रमन्नासीन्महेंद्रेण खगोचरः ॥ ७८ ॥ महेंद्रस्य ततोभ्यासं सुतप्रीत्या महादरः । ससर्प निकसनेत्रः प्रह्लादः प्रीतिमानसः ॥ ७९ ॥ अभ्युत्थाय महेंद्रोsपि मुदितः पुरुसंभ्रमः । आलिंगंतं समालिंगत्प्रह्लादं ह्लादकारणं ॥ ८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org