________________
पद्मपुराणम् ।
षोडशं पर्व। ततो लेखार्थमावेद्य वायवे निर्विलंबितं । गमने सम्मतिं चक्रे कृतमंत्रः सुमंत्रिभिः ॥ ७० ॥ अथ तं गमने सक्तं जानुस्पृष्टमहीतलः । वायुर्व्यज्ञापयत्कृत्त्वा प्रणामं रचितांजलिः ॥ ७१ ॥ नाथ ते गमनं युक्तं विद्यमाने कथं मयि | अलिंगनफलं कृत्यं जनकस्य सुतैननु ॥ ७२॥ ततो न जात एवास्मि यदि ते न करोमि तत् । गमनाज्ञाप्रदानेन प्रसादं कुरु मे ततः ॥ ७३ ॥ ततः पिता जगादैनं कुमारोऽसि रणे भवान् । आगतो न कचित्खेदं तस्मादास्व व्रजाम्यहं ७४ उन्नमय्य ततो वक्षःकनकाद्रितटोपमं । पुना राज्योद्धरं वाक्यं जगाद पवनंजयः ॥ ७५ ॥ तात मे लक्षणं शक्तेस्त्वयैव जननं ननु । जगद्दाहे स्फुलिंगस्य किंवा वीर्य परीक्ष्यते ॥ ७६ ॥ भवच्छासनशेषातिपवित्रीकृतमस्तकः । भंगे पुरंदरस्यापि समर्थोऽस्मि न संशयः ॥ ७७ ॥ अभिधायेति कृत्वा च प्रणामं प्रमदी पुनः । उत्थायानुष्ठितस्त्रानभोजनादिवपुःक्रियः ॥ ७८ ॥ सादरं कुलवृद्धाभिर्दत्ताशीः कृतमंगलः । प्रणम्य भावतः सिद्धान् दधानः परमां द्युतिं ॥ ७९ ॥ वाष्पाकुलितनेत्राभ्यां मंगलध्वंसभीतितः । आशीर्दानप्रवृत्ताभ्यां पितृभ्यां मूर्ध्नि चुंबितः ॥८॥ आपृच्छय बांधवान् सर्वानभिवाद्य च सस्मितः । संभाष्य प्रणतं भक्तं परिवगेमशेषतः ॥८१॥ दक्षिणेनांघ्रिणा पूर्व कृतोच्चालः स्वभावतः । दक्षिणेन कृतानंदः स्फुरता बाहुना मुहुः ॥८२॥
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org