________________
पद्मपुराणम् ।
૩૪૬
पंचदर्श पर्व । उत्तमांगं ततो धृत्वा संमील्य नयने चिरं । जगाद वचनं मंत्री नाम्ना संदेहपारगः ॥ ४२ ॥ भव्योय पूर्वजा याता मम केति विचिंतयन् । संसारप्रकृतिं बुद्धा निर्वेदं परमेष्यति ॥ ४३ ॥ विषयेष्वप्रसक्तात्मा वर्षेष्टादशसंज्ञके । भुक्त्वा भोगमहालाभं गृहितां परिहास्यति ॥ ४४ ॥ बहिरंतश्च स संगं परित्यज्य महामनाः । केवलज्ञानमुत्पाद्य किल निर्वाणमेष्यति ॥ ४५ ॥ वियुक्तानेन बालेयं भ्रष्टशोभा भविष्यति । शर्वरीव शशांकेन जगदालोककारिणा ॥ ४६॥ शृणुतातोऽस्ति नगरमादित्यपुरसंज्ञकं । पुरंदरपुराकारं रत्नैरादित्यभासुरं ।। ४७॥ नभश्चरशशांकोऽत्र प्रह्लादो नाम भोगवान् । तस्य केतुमती पत्नी केतुर्मानसवासिनः ॥ ४८ ॥ तयोर्विक्रमसंभारो रूपशीलो गुणाबुधिः । पवनंजयनामास्ति तनयो नयमंडनः॥४९॥ शुभलक्षणसंछन्नविशालो तुंगविग्रहः । कलानां निलयो वीरो दूरीभूतदुरीहितः ॥ ५० ॥ संवत्सरशतेनापि तस्य वक्तुं न शक्यते । गुणग्रामोऽखिलप्राप्तः समस्तजनचेतसः ॥५१॥ अथवा वचनज्ञानमस्पष्टमुपजायते । अतो गत्वैव वीक्षध्वामिमं देवसमद्युतिं ॥ ५२ ॥ ततः कैतुमतस्योद्यैर्गुणैः श्रोत्रपथं गतः । सर्वे ते परमं प्राप्ताः प्रमोदं कृतसम्मदाः ॥५३ ।। श्रुत्वा कन्यापि तां वार्ता विचकास प्रमोदतः । निशाकरकरालोकमात्रादिव कुमुदती ॥ ५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org