________________
पद्मपुराणास्
पंचदशं पर्व ।
३४ ॥
अथर्वेद्रजिते ते सहनादाय वा नृप । दीयतामेवमप्येष रावणस्तव बांधवः ॥ २९ ॥ अथ तं न तवाभीष्टं ततः कन्या स्वयंवरा । विमुच्यतां न वैरी ते तथासत्युपजायते ॥ ३० ॥ त्याविति याति मंत्रिण्यमरसागरे । विद्वान् सुमतिसंज्ञाको जगाद वचनं स्फुटं ॥ ३१ ॥ मानिकपत्नीको महाहंकारगोचरः । इमां प्राप्यापि नो तस्य प्रीतिरस्मासु जायते ।। ३२ ।। शब्दसमानेऽपि सत्याकारेऽस्य भोगिनः । उत्कृष्टमेव विज्ञेयं त्रयः परमतेजसः ॥ ३३ ॥ इंद्रजन्मेघवाहाय सति दाने प्रकुप्यति । मेघवाहस्तथा तस्मै तस्मात्तावपि नो वरौ ॥ श्रीषेणसुतयोरासीद्गणिकार्थं तदा महत् । पितृदुःखकरं युद्धं स्त्रीहेतोः किं न वेष्यते ॥ वाक्यं ततोनुमन्येदं नाम्ना तारांघरायणः । जगाद वचनं स्वेन भावेन हृतमानसः || ३६ || जयाद्रिदक्षिणं स्थानं कनकं नाम विद्यते । राजा तत्र हिरण्यामः सुमनास्तस्य भामिनी ||३७| अभवत्तनयस्तस्य नाम्ना सौदामिनीप्रभः । महता यशसा कांत्या वयसा चातिशोभनः ।। ३८ ।। सर्वविद्याकलापारो लोकनेत्रमहोत्सवः । गुणैरनुपम श्रेष्टारंजिताखिलविष्टपः ॥ ३९ ॥ सुरविद्याधरैः सर्वैरेकीभूयापि यत्नतः । अजय्यत्रिजगच्छक्तिसंग्रहेण विनिर्मितः ॥ ४० ॥ कन्धेयं दीयतां तस्मै भवतां यदि सम्मतं । चिरादुत्पद्यतां योगो दंपत्योरनुरूपयोः ॥ ४१ ॥
३५ ॥
૪૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org