SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । રૂ उदयाद्यनुजास्तेषां कीर्तितांजनसुंदरी । त्रैलोक्यसुंदरी रूपसंदोहेनैव निर्मिताः ॥ नीलनीरजनिर्भासा प्रशस्तकरपल्लवा । पद्मगर्भाभचरणा कुंभिकुंभनिभस्तनी ॥ तनुमध्या पृथुश्रेणी सुजानूरुसुलक्षणा । प्रफुल्लुमालतीमाला मृदुबाहुलतायुगा ॥ १८ ॥ कर्णातसंगते कांति कृतपुंखे सुदूरगे । इषू ते कामदेवस्य ननु तस्या विलोचने ॥ १९ ॥ गंधर्वादिकलाभिज्ञा साक्षादिव सरस्वती । लक्ष्मीरिव च रूपेण सा बभूव गुणान्विता ॥ २० ॥ अन्यदा कंदुकेनासौ रममाणा सरेचकं । जनकेनेक्षिताभ्यग्रयौवनांचितविग्रहा ॥ २१ ॥ सुलोचनासुताभर्तृवरचिंतातिदुःखितः । अकंपननृपस्येव सद्गुणार्पितचेतसः ॥ २२ ॥ तद्वरान्वेषणे तस्य ततः सक्ताभवन्मतिः । अत्यंत व्याकुलप्रायः कन्यादुःखं मनस्विनां ||२३|| गमिष्यति पतिं श्लाघ्यं रमयिष्यति तं चिरं । भविष्यत्युज्झिता दोषैरतिचिंता नृणां सुत ||२४|| आहूय सुहृदः सर्वांस्ततो विज्ञानभूषणान् । राजा वरविनिश्चित्यै रहो गेहमशिश्रयत् ।। २५ ।। जगाद मंत्रिणचैवमहो निखिलवेदिनः । सूरयो मम कन्याया वदत प्रवरं वरं ।। २६ ।। तत्र मंत्री जगादेकः कन्येयं भरताधिपे । योज्यतां रक्षसामीश इति मे निश्चयं मतं ॥ २७ ॥ रावणं स्वजनं प्राप्य सर्वविद्याधराधिपं । जगत्यां सागरांतायां प्रभावस्ते भ्रमिष्यति ॥ २८ ॥ Jain Education International पंचदशं पर्व । १६ ॥ १७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy