SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । पंचदशं पर्व। सौभाग्यादिभिरत्यंतं हनूमति ततस्तुते । इत्यूचे मगधाधीशो रोमांचं विभ्रदुत्कटं ॥३॥ हनूमान् को गणाधीश! किंविशिष्टः कुतः कवा । भगवन्नस्य तत्त्वेन ज्ञातुमिच्छामि चेष्टितं॥४॥ ततः सत्पुरुषाभिख्या संजातपुरुसम्मदः । वाचाल्हादनकारिण्या गणप्राग्रहरोऽवदत् ॥५॥ दक्षिणस्यां नृप श्रेण्या विजयाधस्य भूभृतः । दशयोजनमध्वानमतिक्रम्य व्यवस्थितं ॥ ६ ॥ आदित्यनगराभिख्यं पुरमस्ति मनोहरं । प्रल्हादस्तत्र राजास्य नाम्ना केतुमती प्रिया ॥७॥ शुभो वायुगतिनाम बभूव तनयोऽनयोः । लक्ष्म्या वक्षःस्थलं यस्य विपुलं निलयीकृतं ॥ ८॥ संपूर्णयौवनं दृष्वा तं तदारक्रियां प्रति । चकार जनकश्चितां संतानच्छेदकातरः ॥९॥ आस्तां तावदिदं राजन्निदमन्यन्मतौ कुरु । वचनं येन तद्दारसंभवः परिकीर्त्यते ॥ १० ॥ वासस्य भरतस्यांते सन्निकृष्टे महोदधेः । पूर्वदक्षिणदिद्भागे दंतीत्यस्ति महीधरः ॥ ११ ॥ विपुलाद्मलिहोदारतेजःशिखरसंकटः । नानाद्रुमौषधिव्याप्तः सुनिर्झरमहातटः ॥ १२ ॥ यतः प्रभृति तत्रस्थात्सन्निवेश्य वरं पुरं । विद्याधरो महेंद्राख्यो महेंद्रोपमविक्रमः ॥ १३ ॥ तत आरभ्य संप्राप महेद्राख्यां रसाधरः । महेंद्रनगरं तच्च पुरं तत्र प्रकीर्तितं ॥ १४ ॥ नार्या हृदयवेगायामजायत महेंद्रतः । गुणवंतः शतं पुत्रा नामतोऽरिंदमादयः ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy