SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ पंचदर्श पर्व । ततो देवा सुरा भक्ताः प्रणम्य मुनिपुंगवं । यथास्वं निलयं जग्मुहर्षविस्तरितेक्षणाः ॥ ३७६ ।। अभिलंकां दशास्योऽपि प्रतस्थे पृथुविक्रमः । खमुत्पत्य दधल्लीला सुरनाथसमुद्भवां ॥ ३७७ ॥ वरस्त्रीजनसंघातैः कृतप्रणतिपूजनः । नगरी स्वां विवेशासौ वस्त्रादिकृतभूषणां ॥ ३७८ ॥ प्रविश्य वसतिं स्वां च समस्तविभवार्चितां । अनावृत इवातिष्ठद्भीरां मांदरी गुहां ॥ ३७९ ॥ भवंति कर्माणि यदा शरीरिणां । प्रशांतियुक्तानि विमुक्तिभाविनां ॥ तदोपदेशं परमं गुरोर्मुखा । दवाप्नुवंति प्रभवं शुभस्य ते ॥ ३८० ॥ इति प्रबुद्धोद्यतमानसा जनाः । जिनश्रुतौ सजत भो पुनः पुनः ॥ परेण धर्म विनयेन शृण्वतां । भवत्यमंदोवगमो यथा रविः ॥ ३८१ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्म-चरिते अनंतबलधर्माभिधानं नाम चतुर्दशं पर्व । अथ पंचदशं पर्व। तस्यैव च मुनेः पार्श्वे हनूमान् गृहिणां व्रतं । विभीषणश्च जग्राह कृत्वा भावं सुनिश्चितं ॥१॥ न तथा गिरिराजस्य स्थिरत्वं शस्यते बुधैः । हनूमच्छीलसम्यवक्त्वं यथा परमनिश्चलं ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy