________________
पद्मपुराणम् ।
चतुर्दश पर्व |
हुताशनशिखा पेया बद्धव्यो वायुरंशुके । उत्क्षेप्तव्यो धराधीशो निर्ग्रथत्वमभीप्सता ।। ३६३ ॥ शूरोऽपि न समर्थोहं सेवितुं यत्तपोव्रतं । अहो चित्रमिदं तद्ये धारयति नरोत्तमाः ॥ ३६४ ॥ किमेकमाश्रयाम्येतं नियमं शोभनामपि । अवष्टंभामि नानिच्छामन्ययोषां वलादिभिः || ३६५ || अथवा ननु न क्षुद्रे कुतः शक्तिरियं मयि । स्वस्याप्यस्य न शक्नोमि बोहुं चित्तस्य निश्चयं ३६६ यद्वा लोकत्रये नासौ विद्यते प्रमदोत्तमा । दृष्ट्वा मां विकलत्वं या न व्रजेन्मन्मथार्दिता || ३६७ || का वा नतराश्लेषदूषितप्रमदा तनौ । उष्ट्रचर्मदधानायां परदंतकृतव्रणं ॥ ३६८ ॥ दुर्गंधायां स्वभावेन वर्चोराशौ भवेद्वतिः । नरस्य दधतश्चित्तं मानसंस्कारभाजनं ॥ ३६९ । अवधार्येतिभावेन प्रणम्यानंतविक्रमं । देवासुरसमक्षं स प्रकाशमिदमम्यधात् ॥ ३५० ॥ भगवन्न मया नारी परस्येच्छाविवर्जिता । गृहीतव्येति नियमो ममायं कृतनिश्चयः ।। ३७१ ।। चतुः शरणमाश्रित्य भानुकर्णोऽपि कर्णवान् । इमं नियममातस्थे मंदर स्थिरमानसः ।। ३७२ ।। करोमि प्रातरुत्थाय सांप्रतं प्रतिवासरं । स्तुत्वा पूजां जिनेंद्राणामभिषेकसमन्वितां ॥ ३७३ ॥ वरिवस्यामवस्त्राणामकृत्वा विधिनान्वितं । अद्यप्रभृति नाहारं करोमीति ससंमदः ॥ ३७४ ॥ जानुभ्यां भुवमाक्रम्य प्रणम्य मुनिमादरात् । अन्यानपि महाशक्तिनियमान् स समार्जयत् २७५
Jain Education International
३४४
For Private & Personal Use Only
www.jainelibrary.org