________________
पद्मपुराणम् ।
३४३
चतुर्दशं पर्व । एकोऽपि नास्ति येषां तु नियमः प्राणधारिणां । पशवस्तेऽथवा भग्नकुंभा गुणविवर्जिता ॥३५०॥ गुणवृत्तसमृद्धेन नियमस्तेन जंतुना । भाव्यं प्रमादमुक्तेन संसारतरणैषिणा ॥ ३५१ ॥ दुष्कर्म ये न मुंचंति मानवा मतिदुर्विधाः । भ्रमंति भवकांतारं जात्यंधा इव ते चिरं ॥ ३५२ ॥ ततस्तेऽनंतववीर्येदुवाङ्मरीचिसमागमात् । प्रमोदं परमं प्राप्ता तिर्यमानवनाकजाः ।। ३५३ ।। सम्यग्दर्शनमायाताः केचित्केचिदणुव्रतं । महाव्रतधराः केचिज्जाता विक्रमशालिनः ॥ ३५४ ॥ अथ धर्मरथाख्येन मुनिनाऽभाषि रावणः । गृहाण नियमं भव्य कंचिदित्यात्मशक्तितः ॥३५५।। द्वीपोयं धर्मरत्नानामनगारमहेश्वरः । गृह्यतामेकमप्यस्माद्रत्नं नियमसंज्ञकं ॥ ३५६ ॥ किमर्थमेवमारेभे चिंताभारवशीकृतः । महतां हि ननु त्यागो न मतेः खेदकारणं ॥ ३५७ ॥ रत्नद्वीपं प्रविष्टस्य यथा भ्रमति मानसं । इदं वृत्तं तथैवास्य परमाकुलतां गतं ॥ ३५८ ॥ अथास्य मानसं चिंता समारूढयमुत्कटा । भोगानुरक्तचित्तस्य व्याकुलत्वमुपेयुषः ॥३५९ ॥ स्वभावेनैव मे शुद्धमंधो गंधमनोहरं । स्वादु वृष्यं परित्यक्तमांसादिमलसंगमं ॥ ३६० ॥ स्थूलपाणिवधादिभ्यो विरतिं गृहवासिनां । एकामपि न शक्तोहं कर्तु कान्यत्र संकथा ॥३६१॥ मत्तेभसदृशं चेतस्तद्वावत्सर्ववस्तुषु । हस्तेनेवात्मभावेन धतुं न प्रभवाम्यहं ॥ ३६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org