________________
पद्मपुराणम् ।
३४२
चतुर्दशं पर्व ।
हारिणः कटकाधाराः प्रकोष्टाः कटिसूत्रिणः । मौलिमंतो भवत्येते छत्रचामरिणोऽमराः || ३३७ || उत्तमव्रतसंसक्ता ये चाणुव्रतधारिणः । शरीरमध्रुवं ज्ञात्वा प्रशांतहृदया जनाः ॥ ३३८ ॥ उपवासं चतुर्दश्यामष्टम्यां च सुमानसाः । सेवते तेन बनंति चिरमायुस्त्रिविष्टपे ॥ ३३९ ॥ सौधर्मादिषु कल्पेषु यांति केचित्समुद्भवं । अपरे त्वहमिंद्रत्वं मुक्तिमन्ये विशुद्धितः ॥ ३४० ॥ विनयेन परिष्वक्ता गुणशीलसमन्विताः तपः संयोजितस्वांता यांति नाकमसंशयं ।॥ ३४९ ॥ तत्र कामेन भुक्त्वासौ भोगान्प्राप्तो मनुष्यतां । भुंक्ते राज्यं महज्जैनं मतं च प्रतिपद्यते ॥ ३४२ ॥ जिनशासनमासाद्य स क्रमात्साधुचेष्टितः । सर्वकर्मविमुक्तानामालयं प्रतिपद्यते ॥ ३४३ ॥ स्तुत्वा कालत्रये यस्तु नमस्यति जिनं त्रिधा । शैलराजवदक्षोम्यः कुतीर्थमतवायुभिः ||३४४|| गुणालंकारसंपन्नः सुशीलसुरभीकृतः । सर्वेन्द्रियहरं भोगं भजते त्रिदशालये ॥ ३४५ ॥ ततः कतिचिदावृत्तीः कृत्वा शुभगतिद्वये । प्रयाति परमं स्थानं सर्वकर्मविवर्जितः || ३४६ ॥ विषया हि समभ्यस्ताचिरं सकलजंतुभिः । ततस्तैर्मोहिताः कर्तुं विरतिं विभवो न ते ॥ ३४७ ॥ इदं तत्र परं चित्रं ये तान् दृष्ट्वा विषान्नवत् । निर्वाणकारणं कर्म सेवते पुरुषोत्तमाः ॥ ३४८ ॥ संसारे भ्रमतो जंतोरेकापि विरतिः कृता । सम्यग्दर्शनयुक्तस्य मुक्तेरायाति बीजतां ॥ ३४९ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org