________________
पद्मपुराणम् ।
३४१
पर्व ।
समयं येऽनगाराणां भुंजंतेऽतीत्यभक्तितः । तेषां स्वर्गे सुखप्रेक्षामाकंक्षति सुराः सदा ॥ ३२४ ॥ इंद्रत्वं देवसंघानां ते प्रयांति सुतेजसः । जनाः सामानिकत्वं वा संपादितयथेप्सिताः ॥ ३२५ ॥ न्यग्रोधस्य यथा स्वल्पं बीजमुच्चैस्तरुर्भवेत् । तपोऽल्पमपि तद्वत्स्यान्महाभोगफलावहं ॥ ३२६ ॥ समः कुवेरकांतस्य नेत्रबंधनविग्रहः । धर्मशक्तमतिर्नित्यं जायते पूर्वधर्मतः ॥ ३२७ ॥ मुनवेलावतो दत्वा मुनेर्भिक्षां समागतः । रत्नदृष्टिं सहस्राक्षः कुवेरदयितो भवेत् || ३२८ ॥ महामंडलविख्यातो नामोदारपराक्रमः । धनेन महता युक्तो भृत्यमंडलमध्यराः ॥ ३२९ ॥ पौर्णमास्यां यथा चंद्रकांतिदर्शनविग्रहः । भुंजानः परमं भोगं सर्वशास्त्रार्थकोविदः ॥ ३३० ॥ पूर्वधर्मानुभावेन परं निर्वेदमागतः । अभियाति महादीक्षां जिनेंद्रसुखनिर्गतां ॥ ३३१ ॥ अनगारमहर्षीणां वेलामर्चति ये जनाः । भोगोत्सवं प्रपद्यंते परं ते हरिषेणवत् ॥ ३३२ ॥ मुनित्रेलाप्रतीक्ष्यत्वादुपार्ज्यं सुकृतं महत् । हरिषेणः परिप्राप्तो लक्ष्मीमत्यंतमुन्नतां । ३३३ ।। मुरतिकमासाद्य समाधानप्रचोदिताः । एकभक्तं जना ये तु कुर्वते शुद्धदर्शनाः ॥ ३३४ ॥ एकभक्तेन ते कालं नीत्वा पंचत्वमागताः । उत्पद्यते विमानेषु रत्नभाचक्रवर्तिषु ॥ ३३५ ॥ नित्यलोकेषु ते तेषु विमानेषु सुचेतसः । रमंते सुचिरं कालं रमंते मध्यवर्तिनः ॥ ३३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org