________________
पद्मपुराणम् ।
चतुर्दशं पर्व । दुःखभारसमाक्रान्ता बालवैधव्य संगताः । अंबुकाष्ठादिवाहिन्यो दुःपूरोदरतत्पराः ।। २९८ ।। सर्वलोकपराभूता वाग्वासीनष्टचेतसः । अंकवणशताधारा भवंति निशि भोजनात् ॥ २९९ ॥ उपशांताशया यास्तु नार्यः शीलसमन्विताः । साधुवर्गहिता रात्रिभोजनाद्विरतात्मिका ॥ ३०० ॥ लभंते ता यथाभीष्टं भोगं स्वर्गे समाहृताः । परिवारेण मूर्धस्थपाणिना शासनैषिणाः ॥ ३०१ ॥ ततश्रयुताः स्फुरंत्युच्चैः कुले विभवधारिणे । शुभलक्षणसंपूर्णा गुणैः सर्वैः समन्विताः || ३०२ || कलाविशारदा नेत्र मानसस्नेहविग्रहाः । विमुंचंत्योमृतं वाचा ह्लादयंत्योऽखिलं जनं ॥ ३०३ ॥ भवत्युत्कंठया युक्तास्तासु विद्याधराधिपाः । हरयो वलदेवाश्च तथा चक्रांकितश्रियः ।। ३०४ ॥ विद्युद्रक्तोत्पलच्छायाः स्फुरल्ललितकुंडलाः । नरेंद्रकृतसंबंधा भवंति दिनभोजनात् ॥ ३०५ ॥ अन्नं यथेप्सितं तासां जायते भृत्यकल्पितं । निशासु या न कुर्वेति भोजनं करुणापराः || ३०६ || श्रीकांता सुप्रभातुल्याः सुभद्रासदृशस्तथा । लक्ष्मीसमत्विषो योषा भवंति दिनभोजनात् ॥३०७॥ तस्मान्नरेण नार्या वा नियमस्तेन चेतसा । वर्जनीया निशाभुक्तिरनेकापायसंगता ॥ ३०८ ॥ अत्यल्पेन प्रयासेन शर्मैवमुपलभ्यते । ततो भजत तं नित्यं स्वसुखं को न वांछति ॥ ३०९ ॥ धर्मो मूलं सुखोत्पत्तेरधर्मो दुःखकारणं । इति ज्ञात्वा भजेद्धर्ममधर्म च विवर्जयेत् ॥ ११० ॥
Jain Education International
३३९
For Private & Personal Use Only
www.jainelibrary.org