________________
३३८
पद्मपुराणम् ।
चतुर्दशं पर्व । ततश्युत्वा मनुष्यत्वं प्राप्य निंदाविवर्जितं । भुंजते चक्रवादिविभवोपहृतं सुखं ॥ २८५ ॥ सौधर्मादिषु कल्पेषु मानुषातीतकारणं । प्रामवंत परं भोग सिद्धिं च शुभचेष्टिताः ॥ २८६ ॥ जगद्धिता महामात्या राजानः पीठमर्दिनः । संमताः सर्वलोकस्य भवंति दिनभोजनात्।।२८७।। धनवंतो गुणोदाराः सुरूपा दीर्घजीविताः । जिनबोधिसमायुक्ताः प्रधानपदसंस्थिताः ॥२८८॥ असह्यतेजसः संख्ये पुरादीनामधीश्वराः । विचित्रवाहनोपेताः सामंतकृतपूजनाः ॥ २८९॥ भवनेशाः सुरेशाश्च चक्रांकविभवाश्रिताः । महालक्षणसंपन्ना भवंति दिनभोजनात् ॥ २९० ॥ आदित्यवत्प्रभावंतश्चंद्रवत्सौम्यदर्शनाः । अनस्तमितभोगाढ्यास्ते येऽनस्तमितोद्यताः ॥२९१ ॥ अनाथा दुर्भगा मातृपितृभ्रातृविवर्जिताः । शोकदारिद्रयसंपूर्णाः स्त्रियः स्युनिशि भोजनात् २९२ रूक्षस्फुटितहस्तादिस्वांगाश्चिपिटनासिकाः । वीभत्सदर्शनाः क्लिनचक्षुषो दुष्टलक्षणाः ॥२९३॥ दुर्गधविग्रहा भग्नसुमहादशनच्छदाः । उल्वणश्रुतयः पिंगस्फुटिताग्रशिरोरुहाः ॥ २९४ ॥ अलाबूवीजसंस्थानदशनाः शुक्लविग्रहाः । काणकुंठगतच्छाया विवर्णा परुषत्वचः ॥ २९५ ॥ अनेकरोगसंपूर्णमालनाछिद्रवाससः । कुत्सिताशनजीविन्यः परकर्मसमाश्रिताः ॥ २९६ ॥ उत्कृतश्रवणं व्यग्रं धनबंधुविवर्जितं । प्राप्नुवंति पतिं नार्यो रात्रिभोजनतत्पराः ॥ २९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org