________________
पद्मपुराणमें।
चतुर्वशं पर्व । सारमेयाखुमार्जारप्रभृतिप्राणिभिः समं । मांसाहारैर्भवेद्धक्तं तेन यो निशि वलगते ॥ २७२ ॥ अथवा किं प्रपंचेन पुलाकेनेह भाव्यते । क्षपायामश्नता सर्व भवेदशुचिभक्षितं ॥ २७३ ॥ विरोचनेऽस्तसंसर्ग गते ये भुंजते जनाः। ते मानुषतया बद्धा पशवो गदिता बुधैः ॥ २७४ ॥ नक्तं दिवा च भुंजानो विमुखो जिनशासने । कथं सुखी परत्र स्यानितो नियमोज्झितः २७५ दयामुक्तो जिनेंद्राणां पापः कुत्सामुदाहरन् । अन्यदेहं गतो जंतुः पूतिगंधमुखो भवेत् ॥२७६॥ मांसं मद्यं निशामुक्ति स्तेयमन्यस्य योषितं । सेवते यो जनस्तेन भवे जन्मद्वयं हतं ॥ २७७ ॥ हृस्वायुर्वित्तमुक्तश्च व्याधिपीडितविग्रहः । परत्र सुखहीनः स्यानक्तं यः प्रत्यवश्यति ॥ २७८ ।। प्राप्तोति जन्ममृत्युं च दीर्घकालमनंतरं । पच्यते गर्भवासेषु दुखेन निशि भोजनात् ॥ २७९ ॥ वराहवृकमार्जारहंसकाकादियोनिषु । जायते सुचिरं कालं रात्रिभोजी कुदर्शनः ॥ २८० ॥ उत्सर्पिण्यवसर्पिण्योः सहस्राणि कुयोनिषु । आपनीपद्यते दुःखं कुधीर्यो निशि वल्भते ॥२८१॥ अवाप्य यो मतं जैनं नियमेष्ववतिष्ठते । अशेषकिल्विषं दग्ध्वा सुस्थानं सोधिगच्छति ॥२८२॥ रत्नत्रितयसंपूर्णा अणुव्रतपरायणाः । तरणावुदिते भव्या मुंजते दोषवर्जितं ॥ २८३ ॥ अपापास्तेऽधिगच्छंति विमानेशास्त्रिविष्टपे । परं भोगं न ये रात्रौ भुंजते करुणापराः ॥ २८४॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org