________________
पद्मपुराणम् ।
३३६
चतुर्दशं पर्व । अप्सरोमंडलांतस्थो विमाने रत्नमासुरे । बहुपल्योपमं कालं धर्मेणानेन तिष्ठति ।। २५९ ।। मनुष्यत्वं समासाद्य दुर्लभं तत्परायणैः । महेशानस्य कर्तव्यं जिनस्य समुपासनं ॥ २६० ॥ यस्य कांचननिर्माणा योजनं जायते मही । आसने जायते देवतिर्यग्मानुषसेविता ।। २६१ ।। प्रातिहार्याणि यस्याष्टौ चतुस्त्रिंशन्महाद्भुतं । सहस्रभास्कराकारं रूपं लोचनसौख्यदं ॥। २६२ ।। भव्यः प्रणाममेतस्य यः करोति विचक्षणः । समुत्तरति कालेन स स्तोकेन भवार्णवं ।। २६३ ॥ उपायमेतमुज्झित्वा शांतिप्राप्तौ शरीरिणां । नान्यः कश्चिदुपायोस्ति तस्मात्सेव्यः स यत्नतः ॥ मार्गा गोदंडकाकाराः संत्यन्येऽपि सहस्रशः । कुतीर्थ संचिता येषु विमुति प्रमादिनः || २६५ || न सम्यकरुणा तेषु मधुमांसादिसेवनात् । जैने तु कणिकाप्यस्ति न दोषस्य प्ररूपणे ॥ २६६ ॥ त्याज्यमेतत्परं लोके यत्प्रपीड्य दिवा क्षुधा । आत्मानं रजनीभुक्त्या गमयत्यर्जितं शुभं ॥ २६७॥ निशि भुक्तिरधर्मो यैर्धर्मत्वेन प्रकल्पितः । पापकर्मकठोराणां तेषां दुःखप्रबोधनं ॥ २६८ ॥ दर्शनागोचरीभूते सूर्ये परमलालसः । भुंक्ते पापमना जंतुदुर्गतिं नावबुद्धयते ।। २६९ ।। मक्षिका कीटकेशादि भक्ष्यते पापजंतुना । तमः पटलसंछन्नचक्षुषा पापबुद्धिना ।। २७० || डाकिनीत भूतादिकुत्सितप्राणिभिः समं । भक्तं तेन भवेद्येन क्रियते रात्रिभोजनं ॥ २७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org