________________
पद्मपुराणम् ।
३३५
चतुर्दशं पर्व ।
तत्र स्वर्गे सहस्राणि समानां दश कीर्तितं । भुंजानस्य जनस्योर्ध्वभोगं चित्तोपपादितं ॥२४६॥ श्रद्दधानो मतं जैनं यः करोति पुरोदितं । पल्यैस्तस्योपमानीयकालः स्वर्गे महात्मनः ॥२४७॥ च्युत्वा तत्र मनुष्यत्वे लभते भोगमुत्तमं । यथोपवनया लब्धं तापसान्वयजातया ॥ २४८ ॥ दुःखिन्युपवनाऽबंधुर्वदराद्युपजीविनी । आदरादीक्षिता राज्ञा मुहूर्तव्रतसंभवात् ॥ २४९ ॥ कुमारी व्रतकस्यां परया द्रव्यसंपदा । योजिता सुतरां जाता धर्मसंविग्नमानसा ।। २५० ।। जिनेंद्रवचनं यस्तु कुरुतेंतरवर्जितं । अनंतरमसौ सौख्यं परलोके गतोश्नुते ॥ २५९ ॥ मुहूर्तद्वितयं यस्तु न भुक्ते प्रतिवासरं । षष्ठोपवासिता तस्य जंतोर्मासेन जायते ॥ २५२ ॥ मुहूर्तत्रिंशतं कृत्वा काले यावति तावति । आहारवर्जनं जंतुरुपवासफलं भजेत् ॥ २५३ ॥ मुहूर्तयोजनं कार्यमेवमेवाष्टमादिषु । अधिकंतु फलं वाच्यं हेतुवृद्धयनुरूपतः ।। २५४ ।। अवाप्यास्य फलं नाके नियमस्य शरीरिणः । मनुष्यतां समासाद्य जायंतेऽद्भुत चेष्टिताः ॥ २५५ ॥ लावण्यपंक लिप्तानां हारिविभ्रमकारिणां । भवंति कुलदाराणां पतयो धर्मशेषतः ।। २५६ ।। स्त्रियोsपि स्वर्गतयुत्वा मनुष्यभवमागताः । महापुरुषसंसेव्या यांति लक्ष्मीसमानतां ॥ २५७ ॥ आदित्येऽस्तमनःप्राप्ते कुरुते योनवर्जनं । भवेदभ्युदयोस्यापि सम्यग्दृष्टेर्विशेषतः ।। २५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org