________________
पद्मपुराणम् ।
चतुर्दशं पर्व । तपोनिर्दग्धपापा ये लघवस्तत्त्ववेदिनः । त एव तारणे शक्ता जनानामुपदेशतः ॥ २३३ ॥ संसारसागरे भीमे रत्नद्वीपोयमुत्तमः । यदेतन्मानुषं क्षेत्रं तद्धि दुःखेन लभ्यते ॥ २३४ ॥ तस्मिन्नियमरत्नानि गृहीतव्यानि धीमता । अवश्यं देहमुत्सृज्य कर्तव्यो भवसंक्रमः ॥ २३५ ।। अतो यथात्र सूत्रार्थ कश्चित्संचूर्णयेन्मणीन् । विषयार्थ तथा धर्मरत्नानां चूर्णको जनः ॥२३६ ॥ अनित्यत्वं शरीरादेरभावं शरणस्य च । अशुचित्वं तथान्यत्वमात्मनो देहपंजरात् ॥ २३७ ।। एकत्वमथ संसारो लोकस्य च विचित्रता । आस्रवः संवरः पूर्वकर्मणां निर्जरा तथा ॥ २३८ ।। बोधिदुर्लभताधर्मस्वाख्यातत्त्वं जिनेश्वरैः । द्वादशैवमनुप्रेक्षा कर्तव्या हृदये सदा ॥ २३९ ॥ आत्मनः शक्तियोगेन धर्म यो यादृशं भजेत् । स तस्य तादृशं भुंक्ते फलं देवादिभूमिषु॥२४०॥ एवं वदन्नसौ पृष्टो भानुकर्णेन केवली । सभेदं नियम नाथ ज्ञातुमिच्छामि सांप्रतं ॥ २४१॥ ततो जगाद भगवान् भानुकर्णावधारय । नियमश्च तपश्चेति द्वयमेतन्न भिद्यते ॥ २४२ ॥ तेन युक्तो जनः शक्त्या तपस्वीति निगद्यते । तत्र सर्वप्रयत्नेन मतिः कार्या सुमेधसा ॥२४३॥ स्वल्पं स्वल्पमपि प्राज्ञैः कर्तव्यं सुकृतार्जनं । पतद्भिक्दुिभिर्जाता महानद्यः समुद्रगाः ॥२४४॥ अहो मुहूर्तमानं यः कुरुते भुक्तिवजेन । फलं तस्योपवासेन समं मासेन जायते ॥ २४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org