________________
पद्मपुराणम् ।
३३३
चतुर्दशं पर्व ।
क्षमाणो महीं मुक्तविकारश्चारुभावनः । साधुकृत्यसमुद्युक्तः पुण्यं तस्यांतवर्जितं ॥ २२० ॥ तृणोपमं परद्रव्यं पश्यंति स्वसमं परं । परयोषां समां मातुर्ये ते धन्यतमा जनाः ।। २२१ ।। प्रतिपद्य कदा दीक्षा विहरिष्यामि मेदिनीं । क्षपयित्वा कदा कर्म प्रपत्स्ये सिद्धसंश्रयं ॥ २२२ ॥ एवं प्रतिदिनं यस्य ध्यानं विमलचेतसः । भीतानीव न कुर्वेति तेन कर्माणि संगतिं ॥ २२३ ॥ सप्ताष्टजन्मभिः केचित्सिद्धिं गच्छति जंतवः । केचिदुग्रतपः कृत्वा द्वित्रैरेव सुचेतसः ॥ २२४ ॥ क्षिप्रं यांति महानंदं मध्यमा भव्यजंतवः । असमर्थास्तु विश्राम्य मार्गस्य यदि वेदकाः॥ २२५ ॥ अहोऽपि योजनशतमविद्वान्वर्त्मयोजनः । भ्राम्यतीष्टमवाप्नोति सपदं न चिरादपि ।। २२६ ।। तथोग्रमपि कुर्वाणास्तपो वितथदर्शनाः । प्रामुवंति पदं नैव जन्ममृत्युविवर्जितं ॥ २२७ ॥ articaria कषायोरगसंकुले । ते भ्रमंति भवारण्ये नष्टमुक्तिपथा जनाः ।। २२८ ।। न शीलं न च सम्यक्त्वं न त्यागः साधुगोचरः । यस्य तस्य भवांबोधितरणं जायते कथं २२९ विंध्यस्य स्रोतसा नागा यत्रोह्यंते नगोन्नताः । वराकाः शशकास्तत्र चिरं नीता विसंशयं ॥ २३० ॥ मृत्युजन्मजरावर्तभवस्रोतोविवर्तिनः । कुतीर्थ्या यत्र नीयते तद्भक्तेष्वत्र का कथा || २३१ ॥ यथा तरयितुं शक्ता न शिला सलिले शिलां । तथा परिग्रहासक्ता कुतीर्थ्याः शरणागतान् २३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org