________________
पद्मपुराणम् ।
३३२
पर्व ।
कुरुते यो जिनेंद्राणां नमस्कारं स्वभावतः । पुण्याधारः स पापस्य लवेनापि न युज्यते ॥ २०७ ॥ यःस्मरत्यपि भावेन जिनांस्तस्याशुभं क्षयं । सद्यः समस्तमायाति भवकोटिभिरर्जितं ॥ २०८ ॥ प्रशस्ताः सततं तस्य गृहाः सर्वे शकुंतयः । त्रैलोक्यं साररत्नं यो दधाति हृदये जिनं ॥ २०९ ॥ अर्हते नम इत्येतत्प्रयुंक्ते यो वचो जनः । भावात्तस्याचिरात्कृत्स्नकर्ममुक्तिरसंशया ।। २१० ॥ जिनचंद्रकथारश्मि संगमादेति फुल्लतां । सिद्धियोग्यासुमत्स्वांतः कुमुदं परमालयं ॥ २११ ॥ अर्हत्सिद्धमुनिभ्यो यो नमस्यां कुरुते जनः । स परीतभवो ज्ञेयः सुशासनजनप्रियः ॥ २१२ ॥ जिनविवं जिनाकारं जिनपूजां जिनस्तुतिं । यः करोति जनस्तस्य न किंचिद् दुर्लभं भवेत् ॥ २१३॥ नरनाथः कुटुंबी वा धनाढ्यो दुर्विधोऽथवा । जनो धर्मेण यो युक्तः स पूज्यः सर्वविष्टपे । २१४ ॥ महाविनयसंपन्नाः कृत्याकृत्यविचक्षणाः । जना गृहाश्रमस्थानां प्रधाना धर्मसंगमात् ॥ २१५ ॥ मधुमांससुरादीनामुपयोगं न कुर्वते । ये जनास्ते गृहस्थानां ललामत्वे प्रतिष्ठिताः ।। २१.६ ।। शंकया कांक्षा मुक्ता तथा ये विचिकित्सया । सुदूररहित्मानः परदृष्टिप्रशंसया ।। २१७ ।। अन्यशासनसंबद्धसंस्तवेन विवर्जिताः । जंतवस्ते गृहस्थानां प्रधानपदमाश्रिताः ।। २१८ ॥ सुचारुवसनोऽत्यंतसुरभिः प्रियदर्शनः । शस्यमानः पुरस्त्रीभिर्याति यो वंदितु जिनं ॥ २१९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org