________________
पद्मपुराणम् ।
३३१
चतुर्दशं पर्व ।
प्रमाणं कार्यमिच्छाया सा हि दद्यान्निरंकुशा । महदुःखमिहाख्येयौ भद्रकांचनसंज्ञकौ ॥ १९४ ॥ विक्रेता वदरादीनां भद्रो दीनारमात्रकं । द्रविणं प्रत्यजानीत दृष्ट्वातोवर्त्मनि च्युतं ॥ १९५ ।। प्रसेवकमतोऽगृह्णाद्दीनारं तु कुतूहली । तत्र कांचननामा तु सर्वमेव प्रसेवकं ॥ १९६ ॥ दीनारस्वामिना राज्ञा कांचनो वीक्ष्य नाशितः । स्वयमर्पितदीनारो भद्रस्तु परिपूजितः ॥ १९७॥ विगमोऽनर्थदंडेभ्यो दिग्विदिक्परिवर्जनं । भोगोपभोगसंख्यानं त्रयमेतद्गुणव्रतं ॥ १९८ ॥ सामायिकं प्रपन्नेन प्रोषधानशनं तथा । सविभागोऽतिथीनांच संलेखश्चायुषः क्षये ॥ १९९ ॥ संकेतो न तिथौ यस्य कृतो यथापरिग्रहः । गृहमेति गुणैर्युक्ताः श्रमणः सोऽतिथिः स्मृतः २०० विभागोऽस्य कर्तव्यो यथाविभवमादरात् । विधिना लोभयुक्तेन भिक्षोपकारणादिभिः २०१ मधुनो मद्यतो मांसाद्यूततो रात्रिभोजनात् । वेश्यासंगमनाच्चास्य विरतिर्नियमः स्मृतः ॥ २०२॥ गृहधर्ममिमं कृत्वा समाधिप्राप्तपंचतः । प्रपद्यते सुदेवत्वं च्युत्वा च सुमनुष्यतां ॥ २०३ ॥ भवानामेवमष्टानामतः कृत्वानुवर्तनं । रत्नत्रयस्य निर्ग्रथो भूत्वा सिद्धिं समनुते ॥ २०४ ॥ नरत्वं दुर्लभं प्राप्य यथोक्ताचरणक्षमः । श्रद्धाति जिनोक्तं यः सोप्यासन्न शिवालयः ।। २०५ ।। सम्यग्दर्शनलाभेन केवलेनापि मानवः । सर्वलाभवरिष्ठेन दुर्गतित्रासमुज्झति ॥ २०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org