________________
३३०
पद्मपुराणम् ।
चतुर्वशं पर्व। द्वित्रैर्भवैश्च निश्शेष कलुषं ध्यानवन्हिना । निर्दा प्रतिपद्यते सुखं सिद्धसमाश्रितं ॥ १८१ ॥ स्नेहपंजररुद्धानां गृहाश्रमनिवासिनां । धर्मोपायं प्रवक्ष्यामि शृणु द्वादशधा स्थितं ॥ १८२ ॥ व्रतान्यमूनि पंचैषां शिखा चोक्ता चतुर्विधा । गुणास्त्रयो यथाशक्ति निर्यमास्तु सहस्रशः १८३ प्राणातिपाततः स्थूलाद्विरतिर्वितथा तथा । ग्रहणात्परवित्तस्य परदारसमागमात् ॥ १८४ ॥ अनंतायाश्च गर्दायाः पंचसंख्यमिदं व्रतं । भावना चेयमेतेषां कथिता जिनपुंगवैः ॥ १८ ॥ इष्टो यथात्मनो देहः सर्वेषां प्राणिनां तथा । एवं ज्ञात्वा सदा कार्या दया सर्वासुधारिणां १८६ एषैव हि पराकाष्ठा धर्मस्योक्ता जिनाधिपः । दयारहितचित्तानां धर्मः स्वल्पोऽपि नेष्यते १८७ वचनं परपीडायां हेतुत्वं यत्प्रपद्यते । अलीकमेव तत्प्रोक्तं सत्यमस्मद्विपर्यये ॥ १८८ ॥ वधादि कुरुते जन्मन्यस्मिस्तेयमनुष्ठितं । कर्तुः परत्र दुःखानि विविधानि कुयोनिषु ॥ १८९ ।। तस्मात्तत्सर्वयनेन मतिमान् वर्जयेन्नरः । लोकद्वयविरोधस्य निमित्तं क्रियते कथं ॥ १९० ॥ परिवा भुजंगीव वनितान्यस्य दूरतः । सा हि लोभवशा पापा पुरुषस्य विनाशिका ॥१९१॥ यथा च जायते दुःखं रुद्धायामात्मयोषिति । नरांतरेण सर्वेषामियमेव व्यवस्थितिः ॥ १९२ ॥ उदारश्च तिरस्कारः प्राप्यतेऽत्रैव जन्मनि । तिर्यड्नरकयोर्दुःखं प्राप्यमेवातिदुस्सहं ॥ १९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org