________________
पद्मपुराणम् ।
चतुर्दशं पर्व ।
रता महत्वयुक्तेषु पंचसंख्येषु साधवः । व्रतेष्वाविग्रहत्यागात्तत्वावगमतत्पराः ।। १६८ ।। समितिष्वपि तत्संख्यासंगतासु सुचेतसः । अभियुक्ता महासत्त्वास्त्रिसंख्यासु च गुप्तिषु ॥ १६९ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्य यथोदितं । येषामस्ति न तेषां स्यात्परिग्रहसमाश्रयः ॥ १७० ॥ देsपि येन कुर्वति निजे रागे मनीषिणः । कः स्यात्परिग्रहस्तेषां यत्रास्तमितशायिनां ।। १७१ ॥ अपि बालाग्रमात्रेण पापोपार्जनकारिणा । ग्रंथेन रहिता धीरा मुनयः सिंहविक्रमाः ।। १७२ ।। समस्तप्रतिबंधेन समीरणवदुज्भिताः । खगानामपि संगः स्यान्नतु तेषां मनागपि ॥ १७३ ॥ व्योमवन्मलसंबंधरहिताः श्लाध्यचेष्टिताः । रजनीनाथवत्सौम्या दीप्ता दिवसनाथवत् ।। १७४ ।। निम्नगानाथगंभीरा धीरा भूधरनाथवत् । भीतकूर्मवदत्यंत गुप्तेंद्रियकदंबकाः ।। १७५ ।। क्षमया क्षमया तुल्याः कषायोद्रेकवर्जिताः । अशीत्या गुणलक्षाणां चतुःसहितयान्विताः १७६ अष्टदशजिनोद्दिष्टशील सहस्र ( १ ) चान्विता । अत्यंताढ्यास्तपोभूत्या सिद्ध्याकांक्षणतत्पराः ।। जिनोदितार्थसंसक्ता विदिता परशासनाः । श्रुतसागरपारस्था मुनयो यमधारिणः ॥ १७८ ॥ नियमानां विधातारः समुन्नद्धतयोज्झिताः । नानालब्धिकृतासंगा महामंगलमूर्तयः ॥ १७९ ॥ एवंगुणाः समस्तस्य जगतः कृतमंडनाः । श्रमणास्तनुकर्माणः प्रयत्युत्तमदेवतां ॥ १८० ॥
Jain Education International
३२९
For Private & Personal Use Only
www.jainelibrary.org