SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३२६ चतुर्दशं पर्व । अभोजदधिमध्वादिविचित्रमणिकुहिमान् । मुक्ताकलापसंयुक्तान् वातायनविराजितान् ॥१२९॥ रुरुभिश्चमरैः सिंहैर्गजैरन्यैश्च चारुभिः । रूपैर्निचितपार्थाभिर्वेदिकाभिरलंकृतान् ॥ १३०॥ चंद्रशालादिभिर्युतान् ध्वजामालाविभूषितान् । सोपासनमनोहारि शयनासनसंगतान् ॥१३१॥ आतोद्यवरसंपूर्णानिच्छासंचारकारिणः । युक्तान् सत्परिवर्गेण पुंडरीकादिलक्षितान् ॥१३२ ॥ विमानप्रभृतीन जीवा निलयान् धर्मकारिणाः । प्रपपद्यतर्कशीतांशुदीप्तिकात्यभिभाविनः।।१३३॥ सुखनिद्राक्षये यद्वद्विबुद्धं विमलेंद्रियं । अचिरोदिततिग्मांशुदीप्तं कात्या समं विधोः ॥१३४ ॥ रजःस्वेदरुजामुक्तं सामोदममलं मृदु । श्रिया परमया युक्तं चक्षुष्यमुपपादजं ॥ १३५ ॥ शरीरं लभ्यते धर्मात्प्राणिभिः सुरसमसु । अलंकाराश्च भाचक्रतिरोहितादिगंतरं ॥ १३६ ॥ सरोरुहदलस्पर्शचरणाः कांतिवनखाः । तुलाकोटिकसंदष्टरक्तांशुकदशाननाः ॥१३७ ।। रंभास्तंभसमस्पर्शजंघांतर्गतजानुकाः । कांचीगुणांचितोदारनितंबा द्विरदक्रमाः ॥ १३८ । अनुदारवलीभंगतनुमध्यविराजिताः । नवोदितक्षपानाथप्रतिमस्तनमंडलाः ॥ १३९ ॥ रत्नावलीप्रभाजालनिर्मुक्तधनचंद्रिकाः । मालतीमार्दवोपेततनुबाहुलताभृतः ॥ १४०॥ महामणिवाचालवलयाकुलपाणयः । अशोकपल्लवस्पर्शकरांगुलिगलत्प्रभाः ॥ १४१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy