________________
पद्मपुराणम् ।
३२७
चतुर्दशं पर्व। कंबुकंठारदच्छायापिहितद्विजवाससः । लावण्यलिप्तसाशकपोलामलदर्पणाः ॥ १४२ ॥ लोचनांतघनच्छायाकृतकर्णावतंसकाः । मुक्तापरीतपद्माभमणिसीमंतभूषणाः ॥१४३ ॥ भ्रमरासितसूक्ष्मातिमृदुकेशकलापिकाः । मृणालकोमलस्पर्शवपुषो मधुरस्वराः ॥ १४४ ॥ अत्यंतमुपचारज्ञा नितांतसुभगक्रियाः । नंदनप्रभवामोदसमनिश्वाससौरभाः ॥ १४५ ॥ इंगितज्ञानकुशलाः पंचेंद्रियसुखावहाः । कामरूपधरा धर्मात्प्राप्यतेऽप्सरसो दिवि ॥ १४६ ।। संकल्पमात्रसंभूतसर्वोपकरणं पुरु । विषयोत्थं सुखं ताभिः प्राप्नुवंति समं सुराः ॥ १४७ ॥ सुखं यस्त्रिंदशावासे यच्च मानुषविष्टपे । फलं तद्गदितं सर्व धर्मस्य जिनपुंगवैः ॥ १४८ ॥ ऊर्ध्वाधोमध्यलोकेषु यो नामसुखसंज्ञितः । भोक्तृणां जायते भावः स सर्वो धर्मसंभवः ॥१४९॥ दाता भोक्ता स्थितेः कर्ता यो नरः प्रतिवासरं । रक्ष्यते नृसहस्रौषैः सर्व तद्धर्मजं फलं ॥१५॥ यत्तत्सुरसहस्राणां हारिभूषणधारिणां । प्रभुत्वं कुरुते शक्रस्तत्फलं धर्मसंभवं ॥ १५१॥ यन्मोहरिपुमुद्वास्य रत्नत्रयसमन्विताः । सिद्धस्थानं प्रपद्यते शुद्धधर्मस्य तत्फलं ॥ १५२ ॥ अप्राप्य मानुषं जन्म सत्त्वधर्मो न लभ्यते । तस्मान्मनुष्यसंप्राप्तिः परमा सर्वजन्मसु ॥ १५३ ॥ राजा श्रेष्ठो मनुष्याणां मृगाणां केसरी यथा । पक्षिणां विनतापुत्रो भवानां मानुषो भवः ॥१५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org