________________
पद्मपुराणम् ।
३२५
चतुर्दशं पर्व ।
प्रायश्चित्तं विनीतिश्च वैयावृस्यकृतिस्तथा । स्वाध्यायेन च संबंधो व्युत्सर्गोध्यानमुत्तमं ॥ ११६ ॥ एतदभ्यंतरे षोढा तपश्चरणमिष्यते । तपः समस्तमप्येतद्धर्म इत्यभिधीयते ॥ ११७ ॥ धर्मेणानेन कुर्वेति भव्याः कर्मवियोजनं । कर्म चाद्भुतमत्यंत व्यवस्थापरिवर्तनं ॥ ११८ ॥ शक्नोति बाधितुं सर्वान् मानुषानमरांस्तथा । लोकाकाशं च संरोद्धुं वपुषा विक्रियात्मना ॥ ११९ ॥ एकग्रासत्वमानेतुं त्रैलोक्यं च महाबलः । अष्टभेदमहैश्वर्यं योगं चाप्नोतिदुर्लभं || १२० ॥ इंति तापं सहस्रांशोस्तुषारत्वमुडुप्रभोः । करोति पूरणं दृष्ट्या सर्वस्य जगतः क्षणात् ।। १२१ ।। भस्मतां नयते लोकमाशीविषवदीक्षणात् । कुरुते मंदरोत्क्षेपं विक्षेपणमुदन्वतां ।। १२२ ।। ज्योतिश्चक्रं समुद्धर्तुमिंद्ररुद्रादिसाध्वसं । रत्नकांचनवर्षं च ग्रावसंघातसर्जनं ॥ १२३ ॥ व्याधीनामतितीव्राणां शमनं पादपांशुना । नृणामद्भुतहेतूनां विभवानां समुद्भवं ॥ १२४ ॥ जीवः करोति धर्मेण तथान्यदपि दुष्करं । नैव किंचिदसाध्यत्वं धर्मस्य प्रतिपद्यते ।। १२५ ।। धर्मेण मरणं प्राप्त ज्योतिश्चक्रतिरस्कृतिं । कृत्वा कल्पान् प्रपद्यंते सौधर्मादीन् गुणालयान् १२६ सामानिकाः सुराः केचिद्भवत्यन्ये सुराधिपाः । अहमिंद्रस्तथान्ये च कृत्वा धर्मस्य संग्रह १२७ हेमस्फटिकवैडूर्यस्तंभसंभारनिर्मितान् । तद्भित्तिभासुरान् तुंगान् प्रासादान्बहुभूमिकान् ॥ १२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org