________________
पद्मपुराणम् ।
३२४
चतुर्दशं पर्व ।
सिद्धो व्याकरण लोक विंदुसारैकदेशतः । धारणार्थो धृतो धर्मशब्दो वाचि परिस्थितः ॥ १०३ ॥ पतंतं दुर्गतौ यस्मात्सम्यगाचरितो भवेत् । प्राणिनं धारत्यस्माद्धर्म इत्यभिधीयते ॥ १०४ ॥ लभिर्धातुः स्मृतः प्राप्तौ प्राप्तिः संपर्क उच्यते । तस्य धर्मस्य यो लाभो धर्मलाभः स उच्यते ॥ जिनैरभिहितं धर्भ कथयामि समासतः । कांश्चित्तत्फलभेदांश्च शृणुतैकाग्रमानसाः ।। १०६ ।। हिंसातोऽलीकतस्तेयान्मैथुनाद्द्रव्य संगमात् । विरतिर्वतमुद्दिष्टं विधेयं तस्य धारणं ॥ १०७ ॥
वाक्यैषणादाननिक्षेपोत्सर्गरूपिका । समितिः पालनं तस्याः कार्यं यत्नेन साधुना ॥ १०८ ॥ वाङ्मनः कायवृत्तीनामभावो प्रदिमाथवा । गुप्तिराचरणं तस्यां विधेयं परमादरात् ।। १०९ ।। क्रोधो मानस्तथा माया लोभश्चेति महाद्विषः । कषायाद्यैरयं लोकः संसारे परिवर्तते ।। ११० । क्षमातो मृदुतः संगादृजुत्वाद्वृत्तियोगतः । विधेयो निग्रहस्तेषां सूत्रनिर्दिष्टकारिणा ॥ १११ ॥ धर्मसंज्ञमिदं सर्वं व्रतादिपरिकीर्तितं । त्यागचोदितो धर्मो विशेषोऽस्य निवेदितः ॥ ११२ ॥ रसनस्पर्शनघ्राणचक्षुःश्रोत्राभिधावतः । प्रसिद्धानींद्रियाण्येषां निर्जयो धर्म उच्यते ॥ ११३ ॥ उपवासोवमौदर्य परिसंख्यानवृत्तिता । रसानां च परित्यागो विविक्तं शयनासनं ।। ११४ ॥ कायक्लेश इति प्रोक्तं बाह्यं षोढा तपः स्थितं । तपसोऽभ्यंतरस्यैतद्वृतिस्थानीयमिष्यते ।। ११५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org