________________
पद्मपुराणम् ।
३२३
चतुर्दशं पर्व। तस्मादुद्दिश्य यद्दानं दीयते जिनपुंगवं । सर्वदोषविनिर्मुक्तं तद्ददाति फलं महत् ॥९॥ वाणिज्यसदृशो तत्रान्वेष्याल्पभूरिता । बहुना हि पराभूतिः क्रियतेऽल्पस्य वस्तुनः॥९१ ॥ यथा विषकणः प्राप्तः सरसीं नैव दुष्यति । जिनधर्मोद्यतस्यैवं हिंसालेशो वृथोद्भवः ॥ ९२ ॥ प्रासादादि ततः कार्य जिनानां भक्तितत्परैः । माल्यधूमप्रदीपादि सर्व च कुशलैर्जनः ।। ९३ ॥ स्वर्गे मनुष्यलोके च भोगानत्यंतमुन्नतान् । जंतवः प्रतिपद्यते जिनानुद्दिश्य दानतः ॥ ९४ ॥ तन्मार्गपस्थितानां च दत्तं दानं यथोचितं । करोति विपुलान् भोगान् गुणानामितिभाजनं ९५ यथाशक्ति ततो भक्त्या सम्यग्दृष्टिषु यच्छतः । दानं तदेकमनास्ति शेषं चौविलुंठितं ॥९६॥ स्थितं ज्ञानस्य साम्राज्ये केवलं परिकीर्त्यते । निर्वाणं तस्य संप्राप्तावुपैति ध्यानयोगतः ॥१७॥ विमुक्ताशेषकर्माणः सर्ववाधाविवर्जिताः । अनंतसुखसंपन्ना आनंदज्ञानदर्शनाः ॥ ९८॥ अशरीराः स्वभावस्था लोकमूर्ति प्रतिष्ठिताः । प्रत्यापत्तिविनिर्मुक्ताः सिद्धा वक्तव्यवर्जिताः॥१९॥ गृद्धा पवनसंवृद्धदुःखपावकमध्यगाः । क्लिश्यते पापिनो नित्यं विना सुकृतवारिणा ॥ १०॥ पापांधकारमध्यस्थाः कुदर्शनवशीकृताः । बोधं केचित्प्रपद्यते धर्मादित्यमरीचिभिः ॥ १०१॥ अशुभाऽयोमयात्यंतधर्मपंजरमध्यगाः । आशापाशवशा जीवा मुच्यते धर्मबंधनाः ॥ १०२॥ .
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org