________________
पद्मपुराणम् ।
३२२
चतुर्दशं पर्व ।
दानं निंदित मप्येति प्रशंसा पात्रभेदतः । शुक्तिपीतं यथा वारि मुक्तीभवति निश्चयं ॥ ७७॥ पशुभूम्यादिकं दत्तं जिनानुद्दिश्य भावतः । ददाति परमान् भोगानत्यंतचिरकालगान् ॥ ७८ ॥ अंतरंग हि संकल्पं कारणं पुण्यपापयोः । विना तेन वहिदोन वर्षःपर्वतमूर्धनि ॥ ७९ ॥ वीतरागान्समस्तज्ञानतो ध्यात्वा जिनेश्वरान् । दानं यद्दीयते तस्य कः शक्तो भाषितुं फलं ८० आयुधग्रहणादन्ये देवा द्वेषसमन्विताः । रागिणः कामिनीसंगाद्भूषणानां च धारणात् ।। ८१॥ रागद्वेषानुमेयश्च तेषां मोहोऽपि विद्यते । तयोहि कारणं मोहो दोषाः शेषास्तु तन्मयाः ॥८२॥ मनुष्या एव ये केचिदेभ्यः पूजनभाजनं । कषायतनवः कालदेशकामादिसेविनः ॥८३ ॥ एवंविधाः कथं देवा दानगोचरतां गताः । अधमा यदि वा तुल्याः फलं कुर्युमनोहरं ॥ ८४ ॥ दृष्टेऽपि तावदेतेषां विपाके शुभकर्मणः । कुत एव शिवस्थानं संप्राप्तौ दुःखितात्मनां ॥८५॥ तदेतत्सिकतामुष्टिपीड़नात्तैलवांछितं । विनाशनं च तृष्णायाः सेवनादाशुशुक्षिणः ॥८६॥ पंगुना नीयते पंगुर्यदि देशांतरं ततः । एतेभ्यः क्लिश्यतो जतोर्देवेभ्यो जायते फलं ॥ ८७ ॥ एषां तावदियं वार्ता देवानां पापकर्मणां । तद्भक्तानां तु दूरेण सत्पात्रत्वं न युज्यते ॥ ८८॥ लोभेन चोदितः पापो जनो यज्ञे प्रवर्तते । कुर्वतो हि तथा लोको धनं तर्हि प्रयच्छति ।। ८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org