________________
पद्मपुरणिम् ।
३२१
चतुर्दशं पर्व ।
सरस्यां जलमेकस्यां गवात्तं पन्नगेन च । क्षीरभावमवाप्नोति विषतां च यथा तथा ॥ ६४ ॥ विन्यस्तं भावतो दानं सम्यर्शन भाविते । मिथ्यादर्शनयुक्ते तु शुभाशुभफलं भवेत् ॥ ६५ ॥ दीनांधादिजनेभ्येस्तु करुणापरिचोदितं । दानमुक्तं फलं तस्माद्यद्यपि स्यान्न सत्तमं ।। ६६ ।। वदंति लिगिनः सर्वे स्वानुकूलं प्रयत्नतः । धर्मं स तु विशेषेण परीक्ष्यः शुभमानसैः ॥ ६७ ॥ द्रव्यं यदात्मतुल्येषु गृहस्थेषु विसृज्यते । कामक्रोधादियुक्तेषु तत्र का फलभोगिता ।। ६८ ।। अहो महानयं मोहः सर्वावस्थेषु यज्जनाः । स्वापतेयं विमुंचति विप्रलब्धाः कुशासनैः ।। ६९ ।। धिगस्तु तान् खलानेष जनो यैर्विप्रतारितः । लोभात्कुग्रंथ कथाभिर्वराको नेयमानसः ॥ ७० ॥ मृष्टत्वाद्वलकारित्वान्मांस भक्ष्यमुदाहृतं । पापैर्देभप्रसिद्धयर्थं परिसंख्या च कीर्तिता ॥ ७१ ॥ क्रूरास्ते दापयित्वा तद्भक्षयित्वा च लोभिनः । मच्छंति नरकं सार्धं दातृभिर्घोरवेदनं ॥ ७२ ॥ जीवदानं तु यत्प्रोक्तं गर्द्धावद्धैर्दुरात्मभिः । ऋषिमन्यैस्तदत्यंतं निंदितं तत्त्ववेदिभिः ॥ ७३ ॥ तस्मिन् हि दीयमानस्य वहनांकनताड़नैः । संपद्यते महादुःखं तेनान्येषां च भूयसां ॥ ७४ ॥ भूमिदानमपक्षिप्तं तद्गतं प्राणिपीड़नात् । प्राणिघातनिमित्तेन पुण्यं पाषाणतः पयः ॥ ७५ ॥ सर्वेषामभयं तस्माद्देयं प्राणभृतां सदा । ज्ञानभेषजमन्नं च वस्त्रादि च गतासुकं ॥ ७६ ॥
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org