________________
पद्मपुराणम्।
चतुर्दशं पर्व ।
संकल्पादशुभाद्दुःखं प्राप्नोति शुभतः सुखं । कर्मणोऽष्टप्रकारस्य जीवो मोक्षमुपक्षयात् ॥ ५१ ॥ दानेनापि प्रपद्यंते जंतवो मोगभूमिषु । भोगान्पात्रविशेषेण वैश्वरूपमुपागतः ॥ ५२ ॥ प्राणातिपातविरतं परिग्रहविवर्जितं । उत्तमाचक्षते पात्रं रागद्वेषोज्भितं जिनाः ॥ ५३ ॥ सम्यग्दर्शन संशुद्धं तपसापि विवर्जितं । पात्रं प्रशस्यते मिथ्यादृष्टेः कायस्य शोधनात् ॥ ५४ ॥ आपद्भयः पाति यस्तस्मात्पात्रमित्यभिधीयते । सम्यग्दर्शनशक्त्या च त्रायते मुनयो जनान् ५५ दर्शनेन विशुद्धेन ज्ञानेन च यदन्वितं । चारित्रेण च तत्पात्रं परमं परिकीर्तितं ॥ ५६ ॥ मानापमानयोस्तुल्यस्तथा यः सुखदुःखयोः । तृणकांचनयोश्चैष साधुः पात्रं प्रशस्यते ॥ ५७ ॥ सर्वग्रंथविनिर्मुक्ता महातपसि ये रताः । श्रमणास्ते परं पात्रं तत्त्व ध्यानपरायणाः ॥ ५८ ॥ तेभ्यो भावेन यद्दत्तं शक्त्या पानान्नभेषजं । यथोपयोगमन्यच्च तद्यच्छति महाफलं ॥ ५९ ॥ क्षिप्तं यथैव सत्क्षेत्रे बीजं तत्संपदं परां । प्रयच्छति तथा दत्तं सत्पात्रे शुद्धचेतसा ॥ ६० ॥ रागद्वेषादिभिर्युक्तं यत्तु पात्रं न तन्मतं । प्रयच्छति फलं दूरं तत्र लाभविचिंतनं ॥ ६१ ॥ क्षिप्तं यदि रणे बीजं न किंचिदुपजायते । मिथ्यादर्शनसंयुक्तं पापं पात्रोद्यतं तथा ॥ कूपादुद्धृतमेकस्मात्सलिलं प्रतिपद्यते । माधुर्यमक्षुभिः पीतं निंबपीतं तु तिक्ततां ॥
६२ ॥
६३ ॥
Jain Education International
३२०
For Private & Personal Use Only
www.jainelibrary.org