________________
पद्मपुराणम् ।
३१९
चतुर्दशं पर्व । तिलमात्रोऽपि देशोऽसौ नास्ति यत्र न जंतुना । प्राप्तं जन्म विनाशो वा संसारावर्तपातिना ३८ मार्दवेनान्विताः केचिदार्जवेन च जंतवः । स्वभावलब्धसंतोषाः प्रपद्यते मनुष्यतां ॥ ३९ ॥ क्षणमात्रसुखस्यार्थे हित्वा पापं प्रकुर्वते । श्रेयः परमसौख्यस्य कारणं मोहसंगताः ॥ ४० ॥ आर्या म्लेच्छाश्च तत्रापि जायंते पूर्वकर्मतः । तथा केचिद्वनेनाद्याः केचिदत्यंतदुर्विधाः ॥४१॥ मनोरथशतानन्ये कुर्वते कर्मवेष्टिताः । कालं नयंति कृच्छ्रेण प्राणिनः परवेश्मसु ॥ ४२ ॥ विरूपा धनिनः केचिनिर्धनाः रूपिणोऽपरे । केचिद्दीर्घायुषः केचिदत्यंतस्तोकजीविनः ॥ ४३ ॥ इष्टा यथास्विनः केचित्केचिदत्यंतदुर्भगाः । केचिदाज्ञां प्रयच्छति तामन्ये कुर्वते जनाः ॥४४॥ प्रविशंति रणं केचित्केचिद्गच्छंति वारिणि । यांति देशांतर केचित्केचित्कृष्यादि कुर्वते ॥४५॥ एवं तत्रापि वैचित्र्यं जायते सुखदुःखयोः । सर्व तु दुःखमेवात्र सुखं तत्रापि कल्पितं ॥४६ ॥ सरागसंयमाः केचित्संयमासंयमास्तथा । अकामनिर्जरातश्च तपसश्च समोहतः ॥ ४७ ॥ देवत्वं च प्रपद्यते चतुर्भेदसमन्वितं । केचिन्महर्द्धयोऽत्रापि केचिदल्पपरिच्छदाः ॥४८॥ स्थित्या झुत्या प्रभावेण धिया सौख्येन लेश्यया । अभिमानेन मानेन ते पुनः कर्मसंग्रहं ॥४९॥ कृत्वा चतुर्गतौ नित्यं भवे भ्राम्यंति जंतवः । अरघघटीयंत्रसमानत्वमुपागताः ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org