SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३१८ चतुर्दशं पर्व । 1 गर्भस्थानर्भकान् वृद्धांस्तरुणान् योषितोनराः । नंति केचिन्महाक्रूर मानसाः पक्षिणो मृगान् २५ स्थलजान् जलजान् धर्मगतचित्तान् कुचेतसः । मृत्वा पतंति ते सर्वे नरके पुरुवेदने ॥ २६ ॥ मधुघातकृतश्चामी चांडाला वनदाहिनः । हिंसापरायणाः पापाः कैवर्तधमलुन्धकाः ॥ २७ ॥ - वितथव्याहृताशक्ताः परस्वहरणोद्यताः । पतंति नरके घोरे प्राणिनः शरणोज्भिताः ॥ २८ ॥ येन येन प्रकारेण कुर्वते मासभक्षणं । तेनैव ते विधानेन भक्ष्यंते नरके परैः ॥ २९ ॥ महापरिग्रहोपेताः महारंभाश्च ये जनाः । प्रचंडाध्यवसायास्ते वसंति नरके चिरं ॥ ३० ॥ साधूनां द्वेषकाः पापा मिथ्यादर्शनसंगताः । रौद्रध्यानमृता जीवा गच्छंति नरकं ध्रुवं ॥ ३१ ॥ कुठारैरसिभिश्चत्रैः करपत्रैर्विदारिताः । अन्यैश्च विविधैः शस्त्रैस्तीक्ष्णतुंडैश्व पक्षिभिः ।। ३२ ।। सिंहैर्व्याघ्रैः श्वभिः सर्वैः शरभैर्वृश्विकैर्वृकैः । अन्यैश्च प्राणिभित्रैः प्राप्यंते दुःखमुत्तमं ||३३|| नितांत ये तु कुर्वति संगं शब्दादिवस्तुनि । मायिनस्ते प्रपद्यंते तिर्यक्त्वं प्राणधारिणः ॥ ३४ ॥ परस्परवधास्तत्र शस्त्रैश्च विविधैः कृताः । प्रपद्यंते महादुःखं वाहा देहादिभिस्तथा ॥ ३५ ॥ सुप्तमेतेन जीवेन स्थलेंभसि गिरौ तरौ । गहनेषु च देशेषु भ्राम्यता भवसंकटे ॥ ३६ ॥ एकद्वित्रिचतुः पंचहृषीक कृतसंगतिः । अनादिनिधनो जंतुः सेवते मृत्युजन्मनी ॥ ३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy