________________
पद्मपुराणम् ।
३१७
चतुर्दशं पर्व । • अवतीर्णश्च खाद्देशाद्विप्रकृष्टान्महाद्युतिः । द्वितीय इव देवेंद्रो वंदनाय महामुनेः ॥ १२ ॥ वंदित्वा तुष्टुवुः साधुमिंद्रप्राग्रहरास्ततः । आसीनाश्च यथास्थानं बद्धांजलिपुटाः सुराः ॥ १३ ॥ रावणोऽपि नमस्कृत्य स्तुत्वा चोदात्तभक्तितः । विद्याधरजनाकीर्णः स्थितः समुचितावनौ १४ ततश्चतुर्विधैर्देवैस्तियग्भिर्मनुजैस्तथा । कृतशंसं मुनिश्रेष्ठः शिष्येणैवमपृच्छयत ॥१५॥ भगवान् ज्ञातुमिच्छंति धर्माधर्मफलं जनाः । समस्ता मुक्तिहेतुं च तत्सर्व वक्तुमर्हथ ॥ १६ ॥ ततः सुनिपुणं शुद्धं विपुलार्थ मिताक्षरं । अप्रधृष्यं जगी वाक्यं यतिः सर्वहितप्रियं ।। १७ ॥ कर्मणाष्टप्रकारेण संततेन निरादिना । बद्धनांतहितात्मीयशक्ति म्यति चेतनः ॥ १८ ॥ सुभूरिलक्षसंख्यासु योनिष्वनुभवत्सदा । वेदनीयं यथोपात्तं नानाकरणसंभवं ॥ १९ ॥ रक्तो द्विष्ठोऽथवा मूढो मंदमध्यविपाकतः । कुलालचक्रवत्माप्तचतुर्गतिविवर्तनः ॥ २० ॥ बुध्यते स्वहितानासौ ज्ञानावरणकर्मणा । मनुष्यतामपि प्राप्तोऽत्यंतदुर्लभसंज्ञकं ॥ २१॥ रसस्पर्शपरिग्राहिहृषीकवशतां गतः । कृत्वातिनिंदितं कर्म पापमारगुरुकृतः ॥ २२ ॥ अनेकोपायसंभूतमहादुःखविधायिनि । पतंति नरके जीवा ग्रावाण इव वारिणि ॥ २३ ॥ मातरं पितरं भ्रातृन् सुतां पत्नी सुहृज्जनान् । धनादिचोदिताः केचिद् नंति निर्दयमानसाः ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org