________________
पद्मपुराणम् ।
३१६
अथ चतुर्दशं पर्व ।
अथ नाकाभिधप्रख्यो भोगसंमूढमानसः । यथाभिमतनिर्वृत्तः परदुर्ललितक्रियः ॥ १ ॥ rat देवाधिपग्राहो या तो मंदिरमन्यदा । जिनेंद्रवंदनां कृत्वा प्रत्यागच्छनिजेच्छया ॥ २ ॥ विभक्तपर्वतान्पश्यन् वास्यानां विविधांघ्रिपान् । सरितश्चातिचक्षुष्याः स्फटिकादपि निर्मला ३ आदित्य भवनाकारविमानस्य विभूषणः । संगतः परया लक्ष्म्या लंकासंगमनोत्सुकः ॥ ४ ॥ सहसा निनदं तुंगं शुश्राव परुषेतरं । पप्रच्छ च महाक्षुब्धो मारीचमतिसत्वरः ॥ ५ ॥ अयि मारीच मारीच कुतोयं निनदो महान् । एताश्च ककुभः कस्मान्महारजतलोहिताः || ६ || ततो जगाद माचो देव ! देवागमो मुनेः । महाकल्याणसंप्राप्तावेष कस्यापि वर्तते ॥ ७ ॥ देवानामेष तुष्टानां नानासंपातकारिणां । आकुलो भुवनव्यापी प्रशस्तः श्रूयते ध्वनिः ॥ ८ ॥ एताश्च ककुभस्तेषां मुकुटादिमरीचिभिः । निचिता दधते भासं कौसुंभीमिव भास्वरं ।। ९ ।। सुवर्णपर्वतेऽमुष्मिन्ननंतवलसंज्ञया । कथितो मुनिरुत्पन्नं नूनं तस्याद्य केवलं ॥ १० ॥ ततस्तद्वचनं श्रुत्वा सम्यग्दर्शन भावितः । परं पुरंदरग्राहः प्रमोदं प्रतिपन्नवान् ॥ ११ ॥
Jain Education International
चतुर्दशं पर्व ।
For Private & Personal Use Only
www.jainelibrary.org