________________
पद्मपुराणम् ।
त्रयोदशं पर्व । ततस्तत्तादृशेनापि भोगेनाप्युपलालितं । वपुस्तस्य तपोभारमुवाहेतरदुर्वहं ॥ १०७॥ प्रायेण महतां शक्तिर्यादृशी रौद्रकर्मणि । कर्मण्येवं विशुद्धेऽपि परमा चोपजापते ॥ १०८॥ दीर्घकालं तपस्तप्त्वा विशुद्धध्यानसंगतः । कर्मणां प्रक्षयं कृत्वा निर्वाणं वासवोऽगमत् ॥१०९॥
पश्यत चित्रमिदं पुरुषाणां चेष्टितमूर्जितवीर्यसमृद्धं । यच्चिरकालमुपार्जितभोगा यांति पुनः पदमुत्तमसौख्यं ॥ ११० ॥ स्तोकमपीह न चाद्भुतमस्ति न्यस्य समस्तपरिग्रहसंगं । यत्क्षणतो दुरितस्य विनाशं ध्यानबलाजनयंति वृहंतः ॥ १११ ॥ अर्जितमत्पुरुकालविधाना-दिधनराशिमुदारमशेषं ।। प्राप्य परं क्षणतो महिमानं किं न दहंत्यनलः क्षणमात्रः ॥ ११२ ।। इत्यवगम्य जनाः सुविशुद्धं यत्नपराः करणं वहतांतः । मृत्युदिनस्य न केचिदपेताः ज्ञानरवेः कुरुत प्रतिपत्तिं ॥ ११३ ॥ इत्याचे रविषेणाचार्यप्रोक्त पद्मचरिते इंद्रनिर्वाणाभिधानं नाम त्रयोदशं पर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org