________________
पद्मपुराणम् ।
३१४
त्रयोदशं पर्व |
विधाय साधुलोकस्य तिरस्कारं जना महत् । दुःखमत्र प्रपद्यंते तिर्यक्षु नरकेषु च ॥ ९४ ॥ मनसापि हि साधूनां पराभूतिं करोति यः । तस्य सा परमं दुःखं परत्रेह च यच्छति ।। ९५ ।। यस्त्वाक्रोशाते निर्ग्रथं हंति वा क्रूरमानसः । तत्र किं शक्यते वक्तुं जंतौ दुष्कृतकर्मणि ॥ ९६ ॥ कायेन मनसा वाचा यानि कर्माणि मानवाः । कुर्वते तानि यच्छंति निकचानि फलं ध्रुवं ॥ ९७ ॥ कर्मणामिति विज्ञाय पुण्यापुण्यात्मिकां गतिं । दृढां कृत्वा मतिं धर्मे स्वमुत्तारय दुःखतः ॥९८॥ इत्युक्ते पूर्वजन्मानि स्मरन् विस्मयसंगतः । शक्रः प्रणम्य निर्ग्रथमिदमाह महादरः ॥ ९९ ॥ भगवंस्त्वत्प्रसादेन लब्ध्वा बोधिमनुत्तमां । सांप्रतं दुरितं सर्वं मन्ये त्यक्तमिव क्षणात् ॥ १०० ॥ साधोः संगमनालोके न किंचिद्दुदुर्लभं भवेत् । बहु जन्मसु न प्राप्ता बोधिर्येनाधिगम्यते ॥ १०१ ॥ इत्युक्त्वा वंदितस्तेन मुनिर्यतो यथेप्सितं । शक्रोऽपि परमं प्राप्तो निर्वेदं गृहवासतः ॥ १०२ ॥ पुण्यकर्मोदयाज् ज्ञात्वा रावणं परमोदयं । स्तुत्वा च वीर्यदंष्ट्राय महाभूभृत्तटक्षितौ ॥ १०३ ॥ जलबुदुदनिस्सारामवबुध्य मनुष्यतां । कृत्वा सुनिश्चलां धर्मे मतिं निदन् दुरीहितं ॥ १०४ ॥ श्रियमिंद्रः सुते न्यस्य महात्मा रथनपुरे । ससुतो लोकपालानां समूहेन समन्वितः ॥ १०५ ॥ दीक्षां जैनेश्वरीं प्राप सर्वकर्मविनाशिनीं । विशुद्धमानसोत्यंतं त्यक्तसर्वपरिग्रहः ॥ १०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org