________________
पद्मपुराणम् ।
३१३
त्रयोदशं पर्व ।
अवधार्येदमत्यंतं विवृद्धेनांतरात्मना । त्यक्त्वा परिग्रहं सर्व चचार परमं तपः ॥ ८१ ॥ हंसावलीनदीतीरे स्थितः प्रतिमयान्यदा । स त्वया प्रत्यभिज्ञातो रथावर्तमहीधरे ॥ ८२ ॥ दर्शनें धनसंवृद्धपूर्वकोपाग्निना ततः । त्वयासौ कुर्वतां नर्मगर्वेण हसितो मुहुः ॥ ८३ ॥ अहल्यारमणः स त्वं कामभोगातिवत्सलः । अधुना किं स्थितोस्येवमितिभाषणकारिणा ॥ ८४ ॥ वेष्टितो रज्जुभिः क्षोणीधरनिष्कंप विग्रहः । तत्त्वार्थचिंतनासंग नितांत स्थिरमानसः ।। ८५ ।।
भभूयमानं तं त्वयास्य निकटस्थितः । कल्याणसंज्ञको भ्राता साधुः क्रोधेन दुःखितः ८६ संहृत्य प्रतिमायोगमृद्धिप्राप्तः स ते ददौ । शापमेवमलं दीर्घ निश्वस्योष्णं च दुःखितः ।। ८७ ।। अयं निरपराधः संस्त्वया यन्मुनिपुंगवः । तिरस्कृतस्तदत्यंतं तिरस्कारमवाप्स्यसि ॥ ८८ ॥ निश्वासेनामितेनासीद्दग्धुमेव निरूपितः । सर्वश्रीसंज्ञया किंतु शमितस्तव कांतया ॥ ८९ ॥ सम्यग्दृष्टिरलं सा हि साधुपूजनकारिणी । मुनयोऽपि वचस्त्वस्या कुर्वते साधुचेतसः ॥ ९० ॥ यदि नाम तया साध्या नासौ नीतः शमं भवेत् । ततस्तस्य स कोपानि: केन शक्येत वारितुं ॥ लोकत्रयेऽपि तन्नास्ति तपसा यन्न साध्यते । बलानां हि समस्तानां स्थितं मूर्ध्नि तपोबलं ॥९२॥ न सा त्रिदशनाथस्य शक्तिः कांतिर्द्युतिर्धृतिः । तपोधनस्य या साधोर्यथाभिमतकारि
९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org